परिवहनम्
From Wikipedia, the free encyclopedia
परिवहनम् ( ( शृणु) /ˈpərɪvəhənəm/) (हिन्दी: परिवहन, आङ्ग्ल: Transportation) अर्थात् वस्तूनां, व्यक्तीनां च एकस्थानात् अन्यत्र वहनम् इति । प्राकृतिकसंसाधनानाम् आर्थिकक्रियाकलापानाम् आपणानाम् एकस्मिन् स्थाने एव प्राप्तिः दुर्लभा । उत्पादनकेन्द्राणाम् उपभोगकेन्द्रैः सह संयोगः परिवहनेन, सञ्चारेण, व्यापारेण च भवति । प्रत्येकेषु प्रदेशेषु तत्रत्यानाम् आवश्यकानां वस्तूनाम् उत्पादनम् अत्यधिकं भवति । तादृशानां वस्तूनां व्यापारः विनिमयश्च परिवहनसञ्चारयोः आधारितः भवति । तथैव जीवनस्य स्तरः, गुणवत्ता च दक्षपरिवहनसञ्चारव्यापारेषु आधारिता भवति । प्रारम्भिकावस्थायां परिवहनसञ्चारयोः एकमेव साधनमासीत् । किन्तु साम्प्रते काले द्वयोः स्वरूपं स्पष्टं, विशिष्टं च वर्तते । परिवहनेन उत्पादनकेन्द-उपभओगकेन्द्रयोः कृते योजकः, वाहकश्च प्राप्यते । तेन माध्यमेन व्यापारः क्रियते ।
व्यक्तीनां, वस्तूनां च एकस्थलात् अन्यस्थलप्राप्तिः परिवहनेन भवति । परिवहने मनुष्याणां, पशूनां, विभिन्नयानानां च उपयोगः भवति । गमनागमनस्य प्रक्रिया स्थले, जले, वायौ च भवति ।
मार्गाः, रेलमार्गाः च स्थलीयपरिवहनं वर्तते । जलमार्गाः, वायुमार्गाः च परिवहनस्य अन्यतमौ द्वौ प्रकारौ स्तः । नलिकारेखाः (pipeline) पेट्रोलियम्, प्राकृतिकवायून्, तरलावस्थान्, अयस्कान् च परिवहति ।[1]
परिवहनं समाजस्य आधारभूतानाम् आवश्यकतानां सन्तुष्ट्यर्थं निर्मितः कश्चित् सेवायाः उद्योगः वर्तते । अस्मिन् प्रकल्पे परिवहनाय मार्गाणां, मनुष्याणां, वस्तूनां वहनार्थं यानानां च समावेशः क्रियते । प्रतिदेशे विभिन्नप्रकारकाणां परिवहनानां विकासः भवति । अनेकमार्गाणाम् एकस्यां श्रेण्यां संयोजनेन निर्मितं प्रारुपं परिवहनजालम् उच्यते ।[2]