महात्मा गान्धी
From Wikipedia, the free encyclopedia
Remove ads
महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( ( शृणु) (/ˈməhɑːtmɑː ɡɑːndhiː/)) (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
Remove ads
बाल्ये सत्यप्रियतायाः पाठः

बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

Remove ads
दक्षिण-आफ्रिकादेशे गान्धी

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदास गान्धी दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तः आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिी भारतदेशं प्रत्यागतवान् ।
Remove ads
स्वातन्त्र्यान्दोलनस्य नेतृत्वम्

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धी काङ्ग्रेससंस्थायां प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः इति महात्मा गान्धी सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रिरूपेण श्रीजवाहरलालनेहरु-महोदयः अधिकारं स्वीकृतवान् । महात्मा गान्धी अधिकारं न स्वीकृतवान् । महात्मगान्धी भारतपाकिस्तानविभागे विरोधं प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिकीर्तनैः कुर्वन्ति जनाः । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मगान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैके कार्यक्रमाः प्रचलन्ति ।
गान्धिदर्शनम्
महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।
गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नीय ईश्वरत्वम् आपाद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरूपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत् ।
गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । "यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरूपं चास्ति स नीतिरूपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्रोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकस्मिन् आत्मरूपेण तिष्ठति ।
गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् । एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मा एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।
सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततम् अभिवर्धेत । एतादृश आदर्शः स्वान्तःप्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वतञ्च कर्त्तव्यमस्ति ।
गान्धिमहोदयः धर्मं ईश्वरप्राप्त्यै मार्गरूपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति । यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यम् अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अत एव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।
नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद् जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशि स्वसद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।
यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरूपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमतेन ईश्वरः तर्कात् पर अस्ति । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धिमहोदयः बोधरूपेण विश्वासरूपेण अनुभूतिरूपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।
गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरूपेण अवर्तत । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमद्भगवद्गीतायाः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरित्वेन स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।
गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः
- (१) ईश्वरः अस्ति । स च सत्यात्मः वर्तते ।
- (२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
- (३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
- (४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
- (५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
- (६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
- (७) पञ्च महामन्त्रा अनुष्ठेयाः ।
- (८) एकादश महाव्रतानि अनिवार्यरूपेण आत्मोन्नत्यै पालनीयानि ।
- (९) ईश्वरः सर्वत्र व्यापकोऽस्ति । तत् सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
- (१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रूपान्तरणं प्राथमिकमस्ति ।
- (११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
- (१२) कर्मण्यताया विकल्पो नास्ति । अतः निःस्वार्थकर्त्तव्यबोधेन कर्त्तव्यताम् आचरन् जनः जीवनप्रयोजनं साधयति ।
- (१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
- (१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।
Remove ads
सम्बद्धाः लेखाः
उल्लेखाः
बाह्यसम्पर्कतन्तुः
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads