अन्ताराष्ट्रीययोगदिवसः
From Wikipedia, the free encyclopedia
अन्ताराष्ट्रिययोगदिवसः ( ( शृणु) /ˈəntɑːrɑːʃhtiːjəjoʊɡədɪvəsəh/) (हिन्दी: अन्तर्राष्ट्रिय योग दिवस, आङ्ग्ल: International Yoga Day) जून-मासस्य एकविंशतितमे (२१/६) दिनाङ्के जनैः आचर्यते [1] । योगः अनन्तकालात् प्रचलितः शारीरिक-मानसिक-आध्यात्मिक-अभ्यासः अस्ति । योगस्य मूलानि भारतदेशे सर्वत्र प्राप्यन्ते । भारतीयसंस्कृतिः भौतिकसुखस्य अपेक्षया आध्यात्मिकसुखाय अधिकं बलं यच्छति । परन्तु शरीरमेव आध्यात्मिकक्षेत्रे उन्नतिं कर्तुम् एकमात्रं साधनं वर्तते इत्यपि भारतीयसंस्कृतेः मतम् । अतः मनसः शान्तिः, शरीरस्य स्वस्थता च मनुष्यस्य आवश्यकता भवति । तस्याः आवश्यकतायाः पूर्त्यै भारतीयतत्वचिन्तकैः योगशास्त्रस्य रचना कृता । अनेन योगशास्त्रेण मनसः शान्तिः, शरीरस्य स्वस्थता च वैज्ञानिकरीत्या प्राप्यते [2] ।
त्वरिततथ्यानि अन्तरराष्ट्रिययोगदिवसः International Yoga Day, व्यावहारिकनाम ...
अन्तरराष्ट्रिययोगदिवसः International Yoga Day | |
---|---|
योगः कर्मसु कौशलम् | |
व्यावहारिकनाम | अन्तरराष्ट्रिययोगदिवसः |
इतर नामानि | योगदिवसः |
के आचरन्ति | आविश्वम् |
वर्गः | संयुक्तराष्ट्रमहासभा |
दिनाङ्कः | जून-मासस्य एकविंशतितमः दिनाङ्कः (२१/६) |
आचरणानि | ध्यानम्, आसनं, प्राणायामः, सम्मेलनानि, चर्चाः, सांस्कृतिककार्यक्रमाः |
पिदधातु