From Wikipedia, the free encyclopedia
अल्लाह् (अरबी: ﷲ ) इति इस्लाम्-मतानुयायी एव विश्वस्य अद्वितीयस्रष्टा तथा प्रतिपालकश्च । 'अल्लाह्' इति शब्दः मुस्लिम्-जनैः व्यवहृयते । परन्तु 'बाहाई', अरबीभाषी कैथिलिक-क्रैस्तजनाः, माल्टावासिनः, रोमन्-कैथेलिक्, मिजोराही इहुदी एवं सिक्खजनाः अल्लाह् शब्दः विभिन्नार्थे उच्चार्यन्ते[1][2][3] ।
विश्वासः
|
पञ्चस्तम्भाः
|
ग्रन्थाः
|
सम्प्रदायाः
|
इतिहासः
|
सुन्नीसम्प्रदायस्य शियासम्प्रदायस्य च अल्लाह् भिन्न नास्ति।
अल्लाह् अयं शब्दः अरबी । अल्+ इलाह् इत्यनयोः पदयोः समन्वये 'अल्लाह्' इति निष्पन्नः । पूर्वपदम् 'अल्' इत्यस्य अर्थः सुनिर्दिष्टः वा एकमेव। परपदं 'इलाह्' अर्थात् ईश्वरः सृष्टिकर्ता वा । तर्हि शब्दद्वयस्य सम्मिलितरूपस्य अर्थः भवति 'एकमेव इश्वरः' 'एकेश्वरः' वा(ὁ θεὸς μόνος, ho theos monos)[4]। समाना व्युत्पात्तिः इतरेष्वपि सेमिटिक्-भाषासु लभ्यते । उदाहरणरूपेण यथा -हीब्रू तथा आरामैक्-भाषा [5]। प्राचीनहीब्रू भाषायां अधिकस्थलेषु बहुवचने अयं शब्दः प्रयुक्तः एलोहिम् אֱלֹהִ֔ים(परन्तु अर्थः एकवचने ) आसीत् । एवञ्च आरामैक् भाषया अस्य शब्दस्य रूपं - ʼĔlāhā ܐܠܗܐ वा ʼAlâhâ ܐܲܠܵܗܵܐ । किन्तु अयं शब्दः सर्वासु भाषासु अपि समार्थकः , एकेश्वरः[6] । सिक्खजनानां पवित्रग्रन्थः गुरु ग्रन्थ साहिब् मध्ये अयं शब्दः अल्लाह्(पञ्जाबी: ਅਲਹੁ) ४६ वारम् उल्लिखितः अस्ति ।
इस्लाम् पूर्व-आरबदेशेष्वापि 'अल्लाह पदस्य व्यवहारः आसीत् । परन्तु शक्तिसम्पन्नः पुरुषः इत्यस्मिन् अर्थे प्रयुज्यते स्म[7][8] । अल्लाह् (एका देवता इति रूपेण) धारणा विभिन्नधर्मे विभिन्नः । इस्लामे 'अल्लाह्' शब्देन एकः, अद्वितीयः एवम् अविनश्वरः इश्वरः इति सुच्यते । तथा समस्तस्वर्गीयगुणवाचकः एकसत्तायाः नामरूपेण संज्ञायितः 'अल्लाह्' इति शब्दः[9] इस्लामिक् भाषानुसारं 'अल्लाह्' एकः अद्वितीयश्च, समस्तजगतः सृष्टिकर्ता, सर्वत्रविराजमानः ईश्वरः । एतस्मात् वर्तमानयुगस्य अरबदेशीयाः क्रैस्ताः भिन्नत्वं प्रतिपादयितुं Allāh al-ʾAb (الله الأب, "God the Father" (अर्थात्, ईश्वर-पिता) शब्दस्य प्रयोगं कुर्वन्ति[10] ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.