From Wikipedia, the free encyclopedia
कार्त्तीकमासस्य शुक्लपक्षे द्वादश्यां तिथौ उत्थानद्वादशी आचर्यते । तद्दिने सोमवासरः उत्तराषाढनक्षत्रं च भवतः चेत् प्रशस्तम् इति वदन्ति । एतस्य पूर्वदिनं प्रबोधिनी अथवा देवोत्थापिनी इति वा वदन्ति । तद्दिने तन्नाम प्रबोधिनीदिने एकादशीव्रतम् आचर्य द्वादश्यां प्रातः कुम्भदानं कुर्वन्ति ।
परम्पराः
|
तत्त्वज्ञानिनः
|
अन्यविषयाः
|
प्रवेशद्वारम्:सनातनधर्मः |
“प्रातर्दत्वा शुभान् कुम्भान् प्रयाति हरिमन्दिरम् ।“ इति उक्तम् अस्ति ।
चातुर्मास्यस्य आरम्भे सुप्तं देवम् अद्य सुप्रभातमङ्गलपुरस्सरम् उत्थापयन्ति । प्रातः स्नानादिकर्माणि समाप्य सङ्कल्पं कृत्वा “इदं विष्णुर्विचक्रमे” इति मन्त्रेण नारायणः उत्थापनीयः ।
इत्येवं गायन्तः भगवतः चातुर्मास्यव्रतस्य समाप्तिमङ्गलं कुर्वन्ति । अनन्तरम् उत्तिथस्य देवस्य वाद्यसहितं शोभायात्रां कुर्वन्ति । चातुर्मास्ये येषां पदार्थानां नियमः आचरितः तान् पदार्थान् ब्राह्मणेभ्यः दानं कुर्वन्ति । षोडशोपचारपूजां कुर्वन्ति । सायङ्काले नारायणं तुलसीं च पुनः षोडशोपचारैः पूजयित्वा तयोः विवाहं कुर्वन्ति । तुलस्यै मङ्गलस्नानं कारयित्वा हरिद्राकुङ्कुमं समर्पयन्ति । तुलसीसस्यस्य पुरतः श्रीकृष्णस्य विग्रहं संस्थाप्य मध्ये अन्तरपटं स्थापयन्ति । मङ्गलाष्टकं पठित्वा अन्तरपटम् अपसार्य द्वयोः उपरि अपि आर्द्राक्षताः संस्थाप्य दमोदरस्य हस्ते तुलसीं स्थापयन्ति । अनन्तरं
तुलस्याः कृते देवस्य हस्तस्पर्शं कारयित्वा विवाहमन्त्रान् वदन्ति ।
इति षोडशोपचारपूजां प्राप्तवते भगवते अर्घ्यं समर्पयन्ति । अनन्तरं दक्षिणां समर्प्य शान्तिसूक्तं विष्णुकूक्तं च वदन्ति । तुलसीसहितस्य विष्णोः मङ्गलारतिं कृत्वा ब्राह्मणान् भोजयन्ति । फलयुक्ताम् आमलकशाखाम् आनीय तुलसीसस्येन सह योजयित्वा बध्नन्ति । तत्र तस्यां शाखयां भगवन्तं नारायणम् आवाह्य तुलस्या सह तस्य विवाहं कुर्वन्ति । श्रीफला, धात्री, अमृता, शिवा, शन्ता, वृष्ठा, रोचनी इत्यादिभिः नामभिः पूज्यमानायाम् आमलक्यां त्रिमूर्तयः (ब्रह्मा, विष्णुः, शिवः च) सन्ति । सा श्रीदेवीस्वरूपिणी । अतः उत्थानद्वादशीदिने आमलकहारं समर्पयन्ति देवाय । आमलकवृक्षस्य पूजां कुर्वन्ति । तस्मिन् गोघृतेन दीपं ज्वालयन्ति । आमलकचूर्णेन स्नानं कुर्वन्ति । देवस्य नैवेद्यं कृत्वा प्रसादरूपेण भोजनारम्भे खादन्ति । एवं करणेन (आमलकस्य उपयोगेन) तद्दिने बहुविधलाभाः सन्ति आरोग्यप्राप्तये ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.