![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/74/Gwalior_udit_2.jpg/640px-Gwalior_udit_2.jpg&w=640&q=50)
ग्वालियर
From Wikipedia, the free encyclopedia
ग्वालियर ( ( शृणु) /ˈɡvɑːlɪjərə/) (हिन्दी: ग्वालियर, आङ्ग्ल: Gwalior) इत्येतन्नगरं मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतस्य ग्वालियरमण्डलस्य केन्द्रम् अस्ति । ग्वालियर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं प्राचीननगरेषु प्रमुखम् अस्ति । अस्य नगरस्य दुर्गाः अपि प्रसिद्धाः सन्ति । इदं नगरं गुर्जर, प्रतिहार, तोमर, कछवाडा इत्येतेषां राजवंशानां केन्द्रमासीत् । अस्मिन् नगरे विद्यमानाः स्मारकाः, दुर्गाः, भवनानि च प्रसिद्धानि सन्ति । अत्र सङ्ग्रहालये बहूनि स्मृतिचिह्नानि सङ्गृहीतानि सन्ति । एतानि स्मृतिचिह्नानि अस्य नगरस्य पर्यटनदृष्ट्या महत्वपूर्णानि मन्यन्ते ।
त्वरिततथ्यानि ग्वालियर-महानगरम् Gwalior, देशः ...
ग्वालियर-महानगरम् Gwalior | |
---|---|
'Tourist Capital of Madhya Pradesh' | |
![]() ग्वालियर-महानगरस्य आकर्षणकेन्द्राणि | |
![]() मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियर नगरम् | |
देशः | भारतम् |
राज्यम् | मध्यप्रदेशराज्यम् |
मण्डलम् | ग्वालियरमण्डलम् |
महानगरविस्तारः | ३६२ च. कि. मी. |
जनसङ्ख्या (२०११) | ११, ०१, ९८१ |
Founded by | राजा सूरज सेन |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | ग्वालियर म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | समीक्षा गुप्ता |
• म्युनिसिपल कमीशनर् | विनोद शर्मा |
Time zone | UTC+५:३० (भारतीयमानकसमयः (IST)) |
पिन कोड |
४७४ xxx |
Area code(s) | ०७५१ |
Vehicle registration | एम पी - ०७ |
साक्षरता | ८७.३८% |
भाषाः | हिन्दी, आङ्ग्लं, मराठी च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४३.५% |
Website | Gwalior Municipal Corporation |
पिदधातु