भारतदेशे एव अतिविशालः ११०० चतुरस्रकिलोमीटर् विस्तृतं चिल्कासरोवरम् ओरिस्साराज्ये गजपतिमण्डले अस्ति । सागरपूर्वप्रदेशे अन्तर्भागे एतत् सरोवरम् अस्ति । पूर्वम् एतत् कोल्ली इति ख्यातम् आसीत् । ६० कि.मी दीर्घवालुकावप्रात् जलाशयः अभवत् । अस्य दैर्घ्यं १० कि.मी, विस्तारः ४०-४५ कि.मी.मितः । गभीरता अधिका नास्ति । अस्मिन् वनप्रदेशे विविधानि १५० जातीयानि पक्षिसङ्कुलानि सन्ति । पक्षिणां सङ्ख्या दशलक्षाधिका अस्ति । अत्र सैबेरियन् क्रेन्, स्याण्डपैपरस्, कारमोराण्ट्, वैर एबिस् फ्लेमिङ्गो इत्यादयः सन्ति । सैबीरिया इरान् इत्यादिभ्यः देशेभ्यः पक्षिणः आगताः भवन्ति । अतः बर्डस् वाचरस् प्याराडैस् इति जनाः एतत् स्थानं कथयन्ति । नवम्बरमासतः जनवरीमासपर्यन्त पक्षिणः अत्र वसन्ति । अत्र सूर्यास्तसूर्योदयदर्शनम् अतीव सुन्दरं भवति । प्रवासिजनाः अत्र नौकाविहारं, तरणं, मन्स्यानां वीक्षणं, मृगयां च कुर्वन्ति । कदाचित् अत्र जलाशये सौतपारा समीपे डाल्फिन् जलचराः अपि दृश्यन्ते । समीपे बर्कुला रम्भा इत्यादीनि अत्युत्तमस्थानानि सन्ति । ओरिस्साप्रवासोद्यमनिगमः प्रवासव्यवस्थां करोति । जले नानाविधाः क्रीडाः प्रचलन्ति । जलं लवणयुक्तमस्ति

Thumb
चिलकासरोवरस्य मानचित्रम्
Thumb
चिल्कासरोवरम्

विमानमार्गः

भुवनेश्वरविमाननिस्थानतः १०० कि.मी

धूमशकटमार्गः

पुरीतः उत्तमसम्पर्कमार्गः अस्ति । सरोवरस्य पार्श्वे एव राष्ट्रियराजमार्गसङ्ख्या -५ अस्ति । बरहामपुरभुवनेश्वरनगरेभ्यः अपि वाहनव्यास्था कर्तुं शक्या । अक्टोबरमासतः मार्चमासपर्यन्तं वीक्षणाय उत्तमः कालः अस्ति ।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.