जगन्नाथदासः
From Wikipedia, the free encyclopedia
जगन्नाथदासः (Jagannatha dasa) श्रेष्ठः कीर्तनकारः । जगन्नाथदासः (कन्नडभाषा : ಜಗನ್ನಾಥ ದಾಸ) कर्णाटकराज्यस्य रायचूरुमण्डलस्य मान्वी उपमण्डले बागवट्टीग्रामः शा.श १६४९ (क्रि.श. १७२७ )तमे वर्षे कीलकसंवत्सरे श्रावणशुद्धद्वितीया दिने जन्म प्राप्तवान् । दासपरम्परायाः प्रसिद्धदासस्य तिम्मण्णदासस्य शिष्यः "नरसिंहाचार्यः" जगन्नाथदासस्य पिता, "लक्ष्मीबायी" माता । पूर्वाश्रमे अस्य नाम श्रीनिवासाचार्यः इति । दम्पत्योः एकाकी पुत्रः चेदपि गार्हस्थ्याश्रमं नाश्रितवान् इति वदन्ति । वरदेन्द्रतीर्थः गोपालदासः च अस्य गुरू अस्ताम् इति श्रूयते । जगन्नाथदासस्य पद्येषु "जगन्नाथविठल" इति अङ्कितं भवति । चन्द्राभागा नद्यां प्राप्तफलकैः अयं विषयः दृढीकृतः । दासवर्गे एषः सुप्रसिद्धः, महाविद्वान् च । भगवद्गीता, ब्रह्मसूत्रम् , दशोपनिषत् इत्यादिनां व्याख्यानं लिखितवान् । एतेन लिखिते हरिकथामृतसारः इत्येतस्मिन् कन्नडग्रन्थे मध्वमतस्य तत्त्वं दृश्यते । एतान् विहाय अन्यानि कीर्तनानि, पद्यानि अपि लिखितवान् । एषः शा.श १७३१ (क्रि.श. १८०९) तमे वर्षे शुक्लसंवत्सरे भाद्रपदशुक्लनवम्यां तिथौ वैकुण्ठवासी अभवत् । एषः टिप्पुसुल्तानस्य यः दिवानः आसीत् तस्य पूर्णय्यस्य आदरभाक् आसीत् । मान्वी मध्ये एव जगन्नाथदास्य स्मारिका बृन्दावनं निर्मितम् अस्ति ।