![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/4/49/Trichymontage.jpg/640px-Trichymontage.jpg&w=640&q=50)
ट्रिचिमलैदुर्गम्
From Wikipedia, the free encyclopedia
ट्रिचिमलैदुर्गम् (०४३१) एतत् दुर्गं २६३ पादपरिमितोन्नतम् । आरोहणाय ४१७ सोपानानि निर्मितानि सन्ति । एषः पर्वतप्रदेशः एव किन्तु पर्वतः इव न दृश्यते । पर्वतः कुतश्चित् दृष्टः चेत् अपि धूसरवर्णः बृहन्नन्दी स्वशिरसि देवालयमेकं धृत्वा उपविष्टवान् अस्ति इव दृश्यते ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/4/49/Trichymontage.jpg/640px-Trichymontage.jpg)
भूगर्भशास्त्रज्ञानां मतानुसारम् अस्य पर्वतस्य निर्माणं हिमालयनिर्माणात्पूर्वं जातम् इति तु आश्चर्यजनकः विषयः अस्ति । दुर्गं गन्तुं साहसिकानाम् एव शक्यम् अस्ति । मार्गः आयासकरः अस्ति ।