तिब्बतीलिपिः
From Wikipedia, the free encyclopedia
तिब्बतीलिपिः अबुगिडा लेखनपद्धतेः एका लिपिः । भारतीयलिपिः ब्राह्मीलिपितः अस्याः लिपेरुत्पत्तिः । मुख्यरूपेण तिब्बतीभाषया लेखनार्थम् इयं लिपिः तिब्बतीजनैः उपयुज्यते । परन्तु भुटानी-सिक्क्मी-लदाखी भाषास्वपि एषा लिपिः व्यवहृता भवति । अस्याः लिपेः मुद्रितरूपं युचेन् इति नाम्ना उच्यते (Tibetan: དབུ་ཅན་, Wylie: dbu-can ; "मात्रा सहित") तथा वक्रहस्तलिखितरूपस्य नाम उमे इति (Tibetan: དབུ་མེད་, Wylie: dbu-med ; "मात्रा रहित")।
त्वरिततथ्यानि तिब्बतीलिपिः, प्रकारः ...
तिब्बतीलिपिः | |
---|---|
प्रकारः | अबुगिडा |
भाषा(ः) |
तिब्बती भुटानी लादाखी सिक्किमी बाल्टी तमाङ्ग शेरपा साङ्गलाभाषा गुरुङ्गभाषा |
स्थितिकालः | क्रैस्तवीय ६५०–वर्तमानकालः |
जननस्रोतः |
प्रोटो-सिनेटिक् वर्णाः
|
जन्यलिपयः |
लिम्बुलिपिः लेप्चालिपिः फागस्पालिपिः |
युनिकोड सूची | U+0F00–U+0FFF |
पिदधातु
तिब्बतीयसंस्कृते वाहिका लिपिरियं तिब्बतदेशान्तरेष्वपि प्रचारिता आसीत् यथा- भुटान्-देशः, नेपालदेशः, भारतदेशः, पाकिस्थानदेशः इत्यादि[1]। लिम्बु-लेप्चालिपयोः जननी एषा तिब्बतीलिपिः[2] ।
साम्प्रतिककाले तिब्बतीलिपेः रोमन्-लिप्यन्तरीकरणं बहुधाप्रकारेण कृतमस्ति [3] ।