द्राक्षा
From Wikipedia, the free encyclopedia
एषा द्राक्षा अपि भारते वर्धमानः फलविशेषः । इयं द्राक्षा अपि सस्यजन्यः आहारपदार्थः । एषा द्राक्षा आङ्ग्लभाषायां Grape इति उच्यते । एषा द्राक्षा न केवलं भारते अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । “तापसप्रिया” इत्येतत् द्राक्षायाः अपरं नाम । एषा द्राक्षा मधुराणां भक्ष्याणां निर्माणे तथा कटूनां खाद्यानां च निर्माणे अपि उपयुज्यते । एषा द्राक्षा मुख्यतया द्विधा विभज्यते । शुष्का द्राक्षा, अशुष्का द्राक्षा च इति । अशुष्कद्राक्षा वर्णानुग्णं पुनः द्विधा विभज्यते – हरितवर्णीया, कृष्णवर्णीया च इति । अत्र उच्यमाना द्राक्षा तु शुष्का द्राक्षा एव । एषा शुष्का द्राक्षा Dryfruits इति यानि उच्यन्ते तेषां शुष्कफलानां गणे अन्तर्भवति ।