भारते नेपाले च भाषिता लोकभाषा From Wikipedia, the free encyclopedia
मगधी (कैथी: 𑂧𑂏𑂡𑂲) मगही (कैथी: 𑂧𑂏𑂯𑂲) वा पूर्वभारतस्य बिहार-झारखण्ड-पश्चिमवङ्ग-राज्येषु नेपालदेशस्य तराईक्षेत्रे च भाष्यते । मागधीप्राकृतं मगधीयाः पूर्वजा, यस्मात् उत्तरस्य नाम उत्पद्यते ।[5]
मगधीभाषा | |
---|---|
मगहीभाषा | |
कैथीलिप्या लिखितं मगही इति | |
विस्तारः | भारतम् |
प्रदेशः | बिहार झारखण्डः पश्चिमवङ्गः च[1] |
Ethnicity | मगधी |
स्थानीय वक्तारः |
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ (अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता)[2] |
भाषाकुटुम्बः | |
उपभाषा(ः) |
दाक्षिणात्यमगधी
औत्तरमगही
मध्यमगही
|
लिपिः |
देवनागरी कैथी (ऐतिहासिक) |
Recognised minority language in | |
भाषा कोड् | |
ISO 639-2 | mag |
ISO 639-3 | mag |
मगही भाषितप्रदेशाः |
लोकगीतानां कथानां च अतिसमृद्धा पुराणी परम्परा वर्तते । बिहारराज्यस्य नवसु मण्डलेषु (गया-पटना-नालन्दा-शेखपुरा-नवादा-लक्खिसराय-अरवलमण्डलेषु) झारखण्डराज्यस्य अष्टसु मण्डलेषु (हजारीबाग-पलामु-चतरा-कोडरमा-जमताडा-बोकारो-धनबाद-गिरिडीहमण्डलेषु) पश्चिमवङ्गराज्यस्य मालदामण्डले च भाष्यते । खोरठाभाषायाः वक्तारः सहितं (या मगधीभाषायाः उपभाषा इति मन्यते) मगधीभाषायाः २,०७,००,००० वक्ताराः सन्ति ।
प्राचीन मागधीप्राकृतभाषया व्युत्पादिता मगधी, या मगधस्य प्राचीने राज्ये निर्मिता, यस्य मूलं गङ्गायाः दक्षिणदिशि सोननद्याः पूर्वदिशि च क्षेत्रम् आसीत् ।
यद्यपि मगधीभाषिणां सङ्ख्या प्रायः १.२६ कोटिः, भारतवर्षे संवैधानिकरूपेण न स्वीकृतम् । बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषायाः उपयोगः भवति ।[6] १९६१ जनगणनायां मगही हिन्दीभाषायाः अधीनं विधिपूर्वकं अवशोषितम् आसीत् ।
मगधीभाषायाः पूर्वजः, मागधीप्राकृतं भारतीय उपमहाद्वीपे निर्मितम् । एते प्रदेशाः प्राचीनमगधराज्यस्य भागः आसन्, यस्य मूलं गङ्गायाः दक्षिणदिशि बिहारराज्यस्य क्षेत्रम् आसीत् ।
नाम मगधी मगही वा साक्षात् मागधी-शब्दात् निष्पन्नम् । आधुनिक भाषायाः कृते मगधीभाषायाः अनेकाः शिक्षितवक्ताराः "मगही" अपेक्षया "मगधी" इति नाम प्राधान्यं ददति ।
मगधीभाषायाः वर्तमानरूपेण विकासः अज्ञातः अस्ति । तथापि भाषाविदः निष्कर्षं गतवन्तः यत् ८ तः ११ शताब्दयोः कालखण्डे मगधी असमिया-ओडिया-बाङ्गला-भोजपुरी-मैथिलीभाषाभिः सह मागधीप्राकृतोद्भवः ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.