युनानिचिकित्सा
From Wikipedia, the free encyclopedia
युनानिचिकित्सा (Unani/Yunani ) चिकित्सापद्धतिषु अन्यतमा । ’हिकमत’ इति अस्याः चिकित्सायाः पर्यायवाचकम् । ’युनानी-तिब उत युनान’ नाम्ना अपि प्रथिता एषा चिकित्सा । भारते शताधिकेषु विश्वविद्यालयेषु युनानिचिकित्सां बोधयन्ति । भारतीय प्राचीन आयुर्वेदचिकित्सायाः अस्याः च साम्यता अस्ति । एषा भारतस्य पर्याय चिकित्सा इति मन्यन्ते । आप्रपञ्चे युनानिचिकित्सायाः उत्तमा गतिः अस्ति । एषा चिकित्सा हिपोक्रटिस्" प्रपञ्चितैः सूत्रैः आधारिता । अस्याः चिकित्सायाः प्रकारेण शरीरे चत्वारः रसाः सन्ति इति । कफ- रक्त-पीतपित्त-नीलपित्तानि च तानि भवन्ति ।