![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/e/e1/Chemicals_in_flasks.jpg/640px-Chemicals_in_flasks.jpg&w=640&q=50)
रसतन्त्रम्
From Wikipedia, the free encyclopedia
रसतन्त्रविषये संस्कृतग्रन्थाः बहवः सन्ति । वाग्भटस्य रससमुच्चयः एतेषु प्राधान्यम् आवहति । शिल्परत्नं, विष्णुधर्मोत्तरं, मानससारः, मानसोल्लासः, रससंहिता इत्यादयः रसतन्त्रस्य विविधविषयान् प्रतिपादयन्ति | स्फटिकं , काचः (लेन्स्), वर्णः, सुधा (सिमेण्ट्), निर्यासः, सुगन्धवस्तूनि, कागदं, लोहाः विशिष्टमृत्पात्राणि इत्यादीनां पदार्थानां निर्माणं, रसप्रक्रिया: च एतेषु ग्रन्थेषु निरूपिताः सन्ति | अत्र अनेकविधानि आम्लानि (Acids) क्षाराः (Bases) च उल्लिखितानि | एतेषाम् उपयोगेन कृत्रिमपदार्थानां निर्माणाय अपेक्षिता साङ्केतिकविद्या अपि तेषु प्रतिपादिता |
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/e/e1/Chemicals_in_flasks.jpg/640px-Chemicals_in_flasks.jpg)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/92/Flame_test.jpg/640px-Flame_test.jpg)
चिकित्सायाम् अपि अस्य रसतन्त्रशास्त्रस्य उपयोगः आसीत् | पतञ्जलिमहर्षेः लोहशास्त्रं लोहसंस्करणेन लवणनिर्माणरीतिं वर्णयति | क्रि.पू द्वितीये शतके जातस्य नागार्जुनस्य रसरत्नाकरग्रन्थः लोहालयनिर्माणार्थं वैज्ञानिकव्यवस्थां निरूपयति | परीक्षणशालायाः रचनं, तत्र आवशयकानि उपकरणानि , एकैकस्यापि प्रक्रियायाः कृते आवश्यकाः तापविशेषाः, रसतः औषधनिर्माणरीतिः इत्यादयः अपि अस्मिन् ग्रन्थे सन्ति | रसस्तम्भनादयः नवदशप्रक्रियाः अपि अत्रैव वर्ण्यन्ते | एकादशशतकीयः रसार्णवग्रन्थः लोहस्य विविधज्ञानाय ज्वालापरीक्षणव्यवस्थां (Flame test) वर्णयति | देहलीस्थः विष्णुस्तम्भः अजन्ताचित्राणि च भारतीयरसतन्त्रस्य प्रत्यक्षोदाहरणानि सन्ति |