राहुल शरद द्राविड (जननम् - जनवरि ११, १९७३) भारतीयक्रिकेट् क्रीडापटुः एषः एकस्मिन् समये समूहस्य नायकः अपि आसीत् । मूलतः एषः मध्यप्रदेशीयः किन्तु पूर्णतया कन्नडीयः । टेस्ट्-क्रिकेट्मध्ये दशसहस्रात् अपि अधिक-रन् कृतवत्सु एषः तृतीयः भारतीयः । सचिन् तेण्डूल्कर, सुनिलगवास्कर च अन्यतमौ । २००७ तमस्य वर्षस्य फेब्रवरी-मासस्य २४ तमे दिनाङ्के प्रचलितायाम् अन्ताराष्ट्रियक्रीडायां दशसहस्रात् अधिक-रन् प्रान्तवत्सु अयं षष्टः । एषः २००५ तमस्य वर्षस्य अक्टोबर् मासे भारतीय-क्रिकेटगणस्य नायकस्थानं प्राप्तवान् । २००७ तमे वर्षे सप्टेम्बर् मासे तत् स्थानं त्यक्तवान् । ततः राहुल् द्राविड इदानीम् इण्डियन् प्रीमियर लीग इत्यस्मिन्, बेङ्गलूरु रायल् यालेञ्जरस् इति समूहे वर्षद्वयं “ऎकान् क्रीडापटुः” भूत्वा, इदानीं जैपुरक्षेत्रस्य समूहे क्रीडति । २००० तमे वर्षे “विसडन् क्रिकेटर्” इति गौरवं प्राप्तवान्, २००८ तमे वर्षे वर्षस्य ऎ. सि. सि. क्रिकेट पटुः, वर्षस्य टेस्ट् क्रीडापटुः इत्यपि पुरस्कारम् एषः प्राप्तवान् । राहुल् द्राविड टेस्ट क्रिकेट मध्ये अत्यधिकक्याचर (२२०) अस्ति । भारतस्य क्रिकेट् गणस्य क्रीडापटूषु एक: तथैव गणस्य भूतपूर्व: नायक: । राहु्ल द्राविड: भारतीय प्रीमियर् लीग, राय्ल चालेञ्जर्स् बेङ्गळूर् गणयो: नायक: तथा ’ऐकान् क्रीडापटु:’ च ।

त्वरिततथ्यानि वैय्यक्तिकपरिचयः, सम्पूर्णनाम ...
राहुल द्रविड
Thumb
२०१२ तमे वर्षे प्रशस्तिस्वीकारावसरे राहुल द्रविड
वैय्यक्तिकपरिचयः
सम्पूर्णनाम राहुल शरद् द्रविड
प्रसिद्धनामानि दि वाल्, जम्मि, मि डिपेण्डेबल्
औन्नत्यम् 5 फ़ुट 11 इंच (1.80 मी)
ताडनशैली दक्षिण-हस्तीयः
कन्दुकक्षेपणशैली दक्षिणस्कन्ध आफ् स्पिन्
पात्रम् बाट्स्मेन्, कदाचित् विकेट्-कीपर्
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap 206) 20 जून् 1996 v इङ्ग्लेण्डदेशः
अन्तिमटेस्ट् 24 जनवरी 2012 v आस्ट्रेलिया
प्रथम-ओ डि ऐ(cap 95) 3 एप्रिल् 1996 v श्रीलङ्का
अन्तिम-ओ डि ऐ 16 सेप्टेम्बर् 2011 v इङ्ग्लेण्ड्
ओ डि ऐ युतकसङ्ख्या. 19
टि २० (cap 38) 31 आगस्ट् 2011 v इङ्ग्लेण्ड्
गृह्यगणविवरणानि
वर्षम् गणः
1990–2012 कर्णाटक क्रिकेट् गणः
2000 केण्ट् कण्ट्रि क्रिकेट् क्लब्
2003 स्काटिष् साल्टैर्स्
2008–2010 रायल् चालेञ्जर्स् बेङ्गलूरु
2011–2013 राजस्थान् रायल्स्
2014 मालिल्बोने क्रिकेट् क्लब्
वृत्तिजीवनस्य सांख्यिकी
स्पर्धा टेस्ट् क्रिकेट् दिनात्मकी अन्ताराष्ट्रियक्रीडा FC LA
क्रीडाः 164 344 298 449
प्राप्ताः धावनाङ्काः 13,288 10,889 23,794 15,271
सामान्यताडनानि 52.31 39.16 55.33 42.30
१००s/५०s 36/63 12/83 68/117 21/112
श्रेष्ठाङ्कः 270 153 270 153
Balls bowled 120 186 617 477
विकेट् 1 4 5 4
बोलिङ्ग् 39.00 42.50 54.60 105.25
५ विकेट् (एकस्मिन् इनिङ्गस्) 0 0 0 0
१० विकेट् (एकास्यां स्पर्धायाम्) 0 0 0 0
श्रेष्ठबोलिङ्ग् 1/18 2/43 2/16 2/43
क्याच्/स्टाम्पिङ्ग् 210/0 196/14 353/1 233/17
Source: [Cricinfo], 30 जनवरि 2012
पिदधातु

बाल्यं तथा क्रिकेट् जीवनस्य प्रारम्भघट्टा:

राहु्ल शरद् द्राविड: जनवरी ११, १९७३ तम वषेर् जन्मं प्राप्तवान् । द्राविड: स्वस्य द्वादशम वयसि एव क्रिकेट् क्रीडितुम् आरम्भं कृतवान् तथा कर्नाटक राज्यस्य परतया अण्डर्- १५, अण्डर्- १७, अण्डर्- १९ समतलस्य गणेषु क्रीडितवान् । भूतपूर्व क्रिकेट् क्रीडापटु: केकी तारापोर: एतस्य प्रतिभां प्रथमम् अभिज्ञातवान् । द्राविड: स्वस्य शालायां प्रथम स्पर्धायाम् एव शतकं धावनं प्राप्तवान् । ब्याटि्टङ्ग् तथा विकेट् कीपिङ्ग् अपि एष: करोति स्म किन्तु भूतपूर्व क्रीडापटव: ये आसन् _ गुण्डप्प विश्वनाथ्, रोजर् बिन्नी, ब्रिजेश् पटे्ल तथा तारापोराना एतेषां सूचनानुसारं एष: विकेट् कीपिङ्ग् कार्यं त्यक्तवान् ।

वृत्तिजीवनम्

क्रिकेट्: १९९६ तमे वर्षत: भारत क्रिकेट् गणस्य सदस्य: राहु्ल द्राविड: दक्षिण हस्तस्य ब्याट्मान् । केकी तारापोरस्य समीपे अभ्यासं कृतवान् एष: ब्याटिङ्ग् विषये अत्युत्तम तान्त्रिकतायां प्रसिद्ध: । तीक्ष्णब्याटिङ्ग् कारणतया, क्रीडायां कदापि पराजयं न प्राप्नोति इत्यतः एतं प्रसारमाध्यमजना: ”दि वा्ल” इत्यपि वर्णयन्ति । इदानिमेव टेस्ट् क्रिकेट् इत्यस्य स्पर्धायां २५ शतकान् (माकिम् ५४मध्येेष: प्राप्तवान् अस्ति । एकदिनस्य अन्तराष्ठ्रीय स्पर्धासु एतस्य माकिम् ३९ (स्ट्रैक् रेट् -३९) । एष: तदा-तदा गणस्य कृते विकेट् कीपिङ्ग् अपि कुर्वन् भवति स्म ।

न केवलं भारत-कर्नाटकयो: कृते, द्राविड: केण्ट् तथा स्काट्लाण्ड् परतया अपि क्रीडितवानस्ति ।१९९६ तमे वषेर् भारतस्य इङ्ग्लेण्द् प्रवासे द्वितीय: टेस्ट् स्पर्धा एव एतस्य प्रथम टेस्ट् स्पधार्, इङ्ग्लेण्ड् देशस्य लार्ड् क्रीडाङ्गणे अभवत् । तस्मिन् वर्षे एव ’सिङ्गर् कप्’ इति सिङ्गपूर् मध्ये एक दिनस्य अन्ताराष्ट्रियस्पर्धायां श्रीलङ्काया: विरुद्धं क्रीडित्वा पादार्पणं कृतवान् ।

प्राप्तानि सम्माननानि

विस्डन् संस्थया एतं २००० तमे वर्षे, वर्षस्य क्रिकेट् क्रीडापटु: इति अयं सम्मानितः । २००४ तमे वर्षे भारतसर्वकारेण एतस्मैे पद्मश्री प्रश्स्तीं दत्त्वा सम्मानितम् । २००४तमे वर्षे सेप्टेम्बर् सप्तमदिनाङ्के एतस्य कृते ऐ.सि.सि.संस्था ”वर्षस्य क्रीडापटु:”, ”वर्षस्य अत्युत्तम टेस्ट् क्रीडापटु:” इत्यपि बिरुदम् अददात् । २००४ तमे वर्षे एष: भारतक्रिकेट्गणस्य उपनायक: आसीत् । यदा सौरव् गङ्गूली न भवति स्म, तदा भारतगणस्य नायकत्वं स्वीकरोति स्म । २००५ तमे वर्षे भारतस्य क्रिकेट्गणस्य नायकत्वं स्वीकृतवान् एष:, श्रीलङ्का विरुद्धस्पर्धायां जयं प्राप्य, दक्षिण-आफ़्रिका गणस्य विरुद्धं भारते यद् अभवत् तद् स्पर्धां २-२ कृत्वा ड्रा करणे यशस्वी अभवत् ।

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.