विकिपीडिया
From Wikipedia, the free encyclopedia
विकिपीडिया तु कश्चन निःशुल्कः, अन्तर्जालाधारितः, सहकारसम्भवः, बहुभाषात्मकः विश्वकोषः अस्ति। एषः तु विकिमीडिया फाउन्डेशन् इत्यनेन संवलितः वर्तते। अस्य १.५ कोटिप्रायाः लेखाः (आङ्ग्लभाषायां तु ३३ लक्षाधिकाः) अखिलसंसारवर्तिभिः स्वयंसेवकैः लिखिताः सन्ति सहकारेण। तथा च अस्य प्रायेण सर्वे अपि लेखाः येन केनापि जनेन सम्पादयितुं शक्यन्ते, येन अस्मिन् अन्तर्जालस्थले सम्पर्कः सम्प्राप्तुं शक्यते। विकिपीडिया तु २००१ तमे वर्षे जिम्मी वेल्स महोदयेन, लैरी सैंगर महोदयेन च आरब्धाआसीत्। अद्यत्वे एषा हि अन्तर्जाले बृहत्तमा तथा च सर्वाधिकलोकप्रिया सामान्यसन्दर्भकृतिः वर्तते।
The logo of Wikipedia, a globe featuring glyphs from several writing systems, most of them meaning the letter W or sound "wi" | |
जालपृष्ठम् | wikipedia.org |
---|---|
घोषवाक्यम् | कश्चन स्वतन्त्रः विश्वकोषः। |
वाणिज्यिक? | न |
प्रकारः | Internet encyclopedia |
पञ्जीकरणम् | Mostly optional Registration is required for certain tasks such as editing protected pages, creating pages in the English Wikipedia, and uploading files. |
उपलभ्यमाना भाषा(ः) | 287 editions[1] |
पञ्जीकृत व्यवहारकारीणः | 69,189 active editors (November 2014),४०,२९८ total accounts. |
सत्त्वाधीकारः |
CC Attribution / Share-Alike 3.0 Most text is also dual-licensed under GFDL; media licensing varies. |
लिखितरूपं | PHP[2] |
स्वामी | Wikimedia Foundation |
निर्माता | [जिम्मी वेल्स], [लैरी सैंगर]] |
प्रकाशनम् | 15, 2001 (2001-01-15) |
एलेक्सा रैङ्क् | 7 (December 2015[update]) |
वर्तमानस्थितिः | Active |
सम्प्रति विकिपीडियायाः विकिमीडिया फौण्डेशन्(wikimedia foundation) इति केन्द्रकार्यालयः अमेरिका देशस्य सान्प्रान्सिस्को नगरे वर्तते। लाभरहितं किञ्चित् सङ्घटनम् विकिपीडियायाः पर्यवेक्षणं करोति। विकिपीडियायाः सेवां निःश्शुल्करूपेण अन्तर्जालसम्पर्कद्वारा सर्वेऽपि प्राप्तुं शक्नुवन्ति ।