विजयदासः
From Wikipedia, the free encyclopedia
विजयदासः (Vijaya dasa) श्रेष्ठः कीर्तनकारः । अध्यात्मिकक्षेत्रे धार्मिकपरम्परायां च हरिदासपरम्परा , विशेषतया दासपरम्परा महती अस्ति । आनन्ददायकानि नीतिबोधकतत्त्वशास्त्राणि दत्तवद्भिः श्रीमद् आनन्दतीर्थभगवत्पादाचार्यैः नरहरितीर्थैः च आरभ्य ,श्रीपादराजस्य नेतृत्वे पुनश्चेतना भूतवा , श्री व्यासगुरुसार्वभौमस्य दिव्यमार्गदर्शने पुरन्दरदासः, कनकदासः इत्यादि हरिदासाः जगति भगवत् स्वरूपं सामान्यजनानां कृते बोधिता , तन्मूलकेन सर्वे ज्ञानं लभेरन् इति आशा,भव्येतिहासपरम्परा च हरिदासपम्परापन्थायाः अस्ति । बहुवर्षपर्यन्तं सौम्येन , मौनेने , गुप्तगामिनीरीत्या एषा हरिदासपरम्परा इति, गङ्गाप्रवाहः देवांशसम्भूतेन,भृगुवंशस्थेन विजयदासेन पुनश्चेतनं अप्राप्नोत् । अपरोक्षज्ञानिनां गणमेव निर्मितवान् विजयदासः विभूतिपुरुषः भूत्वा मानवकुलस्य प्रकाशमार्गं सूचितवान्। सहजवैराग्यमूर्तिः, त्रिकालज्ञानी सः तस्य अनुभावानुभूतिं कीर्तना,भजना इत्यदिरूपेषु जनानां पुरतः स्थाप्य, लोकाः सन्मार्गे गच्छेयुः इति इष्टवान्।