From Wikipedia, the free encyclopedia
पण्डितः शिवकुमार शर्मा (Shivkumar Sharma) (जन्म क्रि.श. १९३८तमवर्षस्य जनवरी मासस्य १३दिनाङ्कः)[1]) प्रख्यातः भारतीयः शततन्त्रीवादकः अस्ति ।[2][3] शततन्त्री किञ्चित् काश्मीरीयं जानपदवाद्यं भावति ।। [1][4][5][6] अस्य जन्म जम्मूनगरे गायकः [7][8] पण्डितः उमादत्त शार्मणः गृहे अभवत् ।[9]क्रि.शा. १९९९तमे वर्षे रीडिफ्.कॉम् समूहमाध्यमार्थं कृते साक्षात्कारे एषः एवम् अवदत् । यदा एषः पञ्चवर्षीयः आसीत् तदा एव अस्य पिता गायनस्य तबलावादनस्य च शिक्षां प्रापितवान् ।[8]अस्य पिता तु शततन्त्रीवाद्यस्य विषये अधिकं संशोधनं कृतवान् । अपि च अस्य आशयः आसीत् यत् शिवकुमारः शततन्त्रीवाद्यस्य शास्त्रीयवादकः प्रथमभारतीयः भवतु इति । शिवकुमारः पितुः आशयस्य पूर्तये १३वर्षीयः एव शततन्त्रिणं वादयितुम् आरब्धवान् ।[8] सः तु पितुः स्वप्नं साकारितं च ।। [1]एष स्वस्य वादनस्य प्रथमकार्यक्रमं मुम्बैनगरे क्रि.श. १९५५तमे वर्षे कृतवान् ।
शिवकुमार शर्मा न केवलं शततन्त्रिणः श्रेष्ठः वादकः किन्तु उत्तमः गायकः अपि । शततन्त्रिवाद्यस्य लोकप्रियतायाः कारणिकः केवलं शिवकुमारशार्मा भवति ।[4][10]एषः सङ्गीतस्य उपलब्धिम् आरब्धवान् तदा शततन्त्रिणः विषये न चिन्तितवान् अपि । अस्य पिता एव निश्चितवान् यत् एषः शततन्त्रिकुशलः एव भवेत् इति । [8]अस्य प्रथमः वाद्यनादगुच्छः क्रि.श. १९६०तमे वर्षे लोकार्पितः ।[1] क्रि.श. १९६५ तमे वर्षे वि.शान्तारमः इत्यस्य निदेशने लोकर्पिते " झनक झनक पाय बाजे " इति चलच्चित्रे गीतानां स्वरसंयोजनं कृतवान् ।[11] क्रि.श. १९६७ तमे वर्षे एषः प्रसिद्धेन वंशीवादकेन पण्डितः हरिप्रसाद चौरासिया इत्यनेन, पण्डितः वृजभूषण काबरा इतिख्यातेन सह मिलित्वा काल् आफ् दि वैली इति गीतगुच्छं लोकार्पितवान् । यत् शास्त्रीयसङ्गीतलोके उन्नतस्तरे परिगण्यते [1][10]एषः हरिप्रसाद चौरासियामहोदयेन सह मिलित्वा अनेकेषां हिन्दीभाषाचलच्चित्राणां सङ्गीतसंयोजनं कृतवन् । [12]चलच्चित्रसङ्गीतस्य श्रीगणेशः क्रि.श. १९८०तमे वर्षे "सिल् सिला " इति हिन्दीभाषाचित्रेण अभवत् । [11] अनेन शिव-हरि इति नाम्ना प्रसिद्धिः प्राप्ता । [11] " फासले " [क्रि.श.१९८५] , चान्दनी " [क्रि.श.१९८९], " लम्हे " [क्रि.श.१९९१], " डर "[क्रि.श.१९९३] इत्यादीनि अनेन स्वरबद्धानि लोकप्रियाणि हिन्दीभाषायाः चलच्चित्राणि । पण्डितः अस्य पत्न्याः नाम मनोरमा शर्मा [9][13]यया पुत्रद्वयं प्राप्तवान् ।[8] अस्य ज्येष्टः पुत्रः राहुल शार्मा । [14][15]अपि शततन्त्रिवादकः अस्ति ।[16][17] पुत्रः राहुलः क्रि.श. १९९६ तमवर्षतः पित्रा समं शततन्त्रिवादनं कुर्वन् अस्ति ।[8]शिवकुमार शर्मा पुत्रं देवस्य वरप्रसादः इति मन्यमानः शिष्यत्वमपि दत्त्वा शततन्त्रिवादननिपुणम् अकरोत् । [8]
शिवकुरार शर्मणा अनेकाः राष्ट्रीयान्ताराष्ट्रीयपुरस्काराः प्राप्ताः । क्रि.श. १९८५तमे वर्षे बाल्टिमोर्, संयुक्तराज्यम् इत्यदीनां राष्ट्रानां गौरवपौरत्वम् प्राप्तम् ।[18] एतदतिरिच्य क्रि.श. १९८६ तमे वर्षे सङ्गीतनाटकाकादमीपुरस्कारः अपि प्राप्तः ।,[19] शिवकुमार शर्मा क्रि.श. १९९१ तमे वर्षे पद्मश्रीप्रशस्तिः, क्रि.श. २००१ तमे वर्षे पद्मविभूषणप्रशस्तिः च प्राप्तवान् । [20]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.