हेलेन् केलर्
From Wikipedia, the free encyclopedia
हेलेन एड्मन्स् केलर ( ( शृणु) /ˈhɛlən kɛlər/) (हिन्दी: हेलेन् केलर्, आङ्ग्ल: Hellen Keller) अन्धा, बधिरा, मूका चासीत् । परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत् । यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत् [1] ।
हेलेन् केलर् Helen Keller | |
---|---|
कनकचम्पापुष्पं (magnolia) धृतवती हेलेन केलर (१९२०) | |
जननम् |
हलेन् एड्मन्स् केलर् (१८८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-२७)२७, १८८० तुस्कम्बिया, अलाबामा, यु एस् ए |
मरणम् |
१, १९६८(१९६८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-०१) (आयुः ८७) एस्टोन्, कनेक्टिकट्, यु एस् ए |
वृत्तिः | लेखिका, राजनीतिज्ञा, प्राध्यापिका |
विद्याभ्यासः | रेड्क्लिफ् कॉलेज् |
| |
हस्ताक्षरम् |
अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत् । सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता [2][3] । तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते [4] । हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति । हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत् ।
उत्तमा लेखिका केलर् बहुयात्रिणी, मुखरा, दृढमनस्विनी चासीत् । सोसियलिस्ट् पार्टि ऑफ् अमेरीका-पक्षस्य, इण्डस्ट्रियल् वर्कर्स् ऑफ् द वल्ड्-संस्थायाः सदस्या सा महिलामताधिकाराय, कर्मकराधिकाराय, समाजवादाय च अभियानानि अकरोत् । १९१७ तमे वर्षे सा Alabama Women's Hall of Fame इत्स्याः संस्थायाः सदस्या अभवत् [5] ।