अण्डोरा
From Wikipedia, the free encyclopedia
Remove ads
Not to be confused with Andora.
For other uses, see अण्डोरा (disambiguation).
अण्डोरा (i/ænˈdɔːrə/) अथवा प्रिन्सिपालिटी आफ् अण्डोरा,[३] इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते ।
अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति[४] । अत्रत्या प्रमुखा भाषा तु ’कतलान्’ नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति ।[५] प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति ।[६] एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।[७]
Remove ads
बाह्यसम्पर्काः
- Portals to the World from the United States Library of Congress
- Andorra from UCB Libraries GovPubs
- अण्डोरा
- Andorra from the BBC News
- Andorra – Guía, turismo y de viajes
- History of Andorra: Primary Documents from EuroDocs
- A New Path for Andorra – slideshow by The New York Times
टिप्पणी
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads