धाराशिव जनपद

From Wikipedia, the free encyclopedia

धाराशिव जनपदmap
Remove ads

धाराशिव जनपद (मराठी: धाराशिव जिल्हा, आङ्ग्ल: Dharashiv District), पुरातनं नाम उस्मानाबाद्-जनपद, महाराष्ट्रराज्ये स्थितं मण्डलम्। अस्य मण्डलस्य केन्द्रं धाराशिव इत्येतन्नगरम्। तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम्।

Thumb
नळदुर्ग
Thumb
हुलमुख द्वारम्
त्वरिततथ्यानि धाराशिव जनपदधाराशिव जिल्हा उस्मानाबाद् जनपद, देशः ...
Remove ads

भौगोलिकम्

धाराशिवमण्डलस्य विस्तारः ७,५१२ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ६०० मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।

कृष्युत्पादनम्

अस्य मण्डलस्य ८०.१३% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः(ज्वारी), कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

Remove ads

जनसङ्ख्या

धाराशिवमण्डलस्य जनसङ्ख्या(२०११) १६,६०,३११ अस्ति । अस्मिन् ८,६१,५३५ पुरुषाः ७,९६,०४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७६.३३% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • धाराशिवम् (उस्मानाबाद्)
  • तुळजापुरम्
  • उमरगा
  • लोहारा
  • कळम्ब
  • भूम
  • वाशी
  • पराण्डा

लोकजीवनम्

मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।

वीक्षणीयस्थलानि

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा - १ तुळजाभवानी-मन्दिरम्
२ सन्त गोरोबा-मन्दिरम्
३ धाराशिव-लयनानि
४ नळदुर्गः
५ परान्दा-दुर्गः
६ कुन्थलगिरी-जैनमन्दिरम्


बाह्यसम्पर्कतन्तुः

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads