गोदावरीनदी

From Wikipedia, the free encyclopedia

गोदावरीनदी
Remove ads
त्वरिततथ्यानि Country, States ...
Remove ads

उपनद्यः

पूर्णा प्रणहिता इन्द्रवती शबरीनदी प्रवरा मञ्जिरा पेड्डावगु मनैर् किन्नेसरी च। सा राजमण्ड्रेः समीपे बङ्गालोपसागरेन मिलति ।

Thumb
गोदावरीनद्याः कृते निर्मिता सेतुः

गोदावरी दक्षिणभारतस्य प्रमुखा नदी। सा दक्षिणगङ्गा इत्यपि प्रसिद्धा। इयं महाराष्ट्रस्य नासिकमण्डले त्रयम्बकेश्वरे उद्भ्वति। सप्तपवित्रनदीषु अन्यतमा गोदावरी भारतस्य पश्चिमभागात् पूर्वाभिमुखं प्रवह्य अनन्तरं दक्षिणाभिमुखं प्रवहति । एतस्याः दक्षिणगङ्गा इत्यपि अपरं नाम । भारतस्य प्रमुखनदीषु अन्यतमायाः एतस्याः दैर्घ्यं १४६५ कि.मी.यावत् अस्ति । गङ्गायाः अनन्तरं भारतस्य द्वितीया दीर्घा नदी, दक्षिणभारतस्य दीर्घतमा नदी अस्ति । । पाण्डीचेरीसमीपे याणम् इत्यत्र तथा आन्ध्रप्रदेशस्य पूर्वगोदावरीमण्डले अन्तर्वेदी इत्यत्र बङ्गालोपसागरेण मिलति । एषा बसरा (आदिलाबादमण्डलम्) इत्यत्र आन्ध्रप्रदेशं प्रविशति । अत्र एव प्रसिद्धं ज्ञानसरस्वत्याः मन्दिरम् अस्ति । भारते द्वितीयं सरस्वत्याः मन्दिरम् एतत् । आन्ध्रप्रदेशस्य तेलङ्गाणाप्रदेशमार्गेन गमनसमये धर्मपुरी इति कश्चन लघुग्रामः लभ्यते । अत्र अनेकानि मन्दिराणि सन्ति ।While passing through telangana region of

नासिकनगरस्य अनन्तरं गोदावरीनद्याः तीरे द्वितीयं महानगरं नामराजमण्ड्री . राजमण्ड्र्यां गोदावरीनद्याः अत्यन्तं विशालं पात्रम् अस्ति । तन्नाम नद्याः अपरं तीरं ५ कि.मी.दूरे कोव्वूरुनगरे भवति । १९६४ तः -१९६९ पर्यन्तस्य पञ्चवार्षिकयोजनायां निर्मितः श्रीरामसागरप्रकल्पः आदिलाबादमण्डलस्य निझामाबादमण्डलस्य करीमनगरमण्डलस्य वरङ्गलमण्डलस्य च जलापेक्षां पूरयति ।

Remove ads

नद्याः तीरे विद्यमानानि प्रमुखनगराणि

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads