तमिळ्भाषा

From Wikipedia, the free encyclopedia

तमिळ्भाषा
Remove ads

तमिऴ् (தமிழ்) द्राविडभाषापरिवारस्‍य एका भाषा। तमिऴ्‌भाषा पृथिव्‍यां प्राचीनतमभाषासु अन्यतमा। द्रविडपरिवारस्य भाषासु इयम्‌ अन्याभ्यः अधिकं पुरातनी समृद्धा च। तमिऴ्‌नाडुराज्ये जनाः तमिऴ्‌भाषया वदन्ति। एषा भारते श्रीलङ्कायां सिङ्गापुरे च कार्यालयीयभाषा वर्तते। एषा भारते तमिऴ्‌नाडुराज्यस्य पुदुच्चेर्याः अपि कार्यालयीयभाषा वर्तते । अस्मिन् द्विसहस्रतमे शताब्दे इयं भाषा भारतशासनद्वारा शास्त्रीयभाषात्वेन उद्घोषिता । मॉरीशस्-मलेशियिदेशयोः अपि अनया भाषया महत्त्वपूर्णं स्थानं प्राप्तम् अस्ति।

अधिकसूचना तमिऴ्, राजकीया स्थितिः ...
Thumb
भारते श्रीलङ्कायां च तमिळ्भाषाया: वाचकत्वविस्तर:
Remove ads

पारंपरीय: इतिहास:

भारतीयपुराणानुसारेण तमिऴ्‌भाषायाः रचना भगवता शिवेन कृता। तेन च तमिऴ्-व्‍याकरणम्‌ अगस्त्यमुनये उपदिष्टम्‌। तत्पुराणं तु विस्तरेण किंचित् विवृतम् पुरा त्रय: तमिळ्संघा: आसन्। ते सर्वे तु पाण्ड्यवंशेनैव स्थापिता: आयोजिता: निर्वाहिताश्च आसन्।

तेषु पूर्वौ द्वौ संघौ अद्यतनीयात् दक्षिणभारताग्रात् दक्षिणे वर्तमानौ आस्ताम्। तयो: प्रदेशौ तु पुराणनुसारम् समुद्रजलेषु निर्मग्नौ अभूताम्।

भाषावैज्ञानिका स्थिति:

भाषाविज्ञानुसारेण मौलिकद्राविडा इति संज्ञिता एका लुप्तप्राक्तनभाषा भवितव्या आसीत् ॥ तस्या: उद्भूतासु तिसृषु शाखासु अन्यतमा मौलिका दाक्षिणात्या द्राविडा इति संज्ञिता एका भवितव्या आसीत् ॥ तस्यां शाखायां उद्भूता एषा तमिळभाषा। तत्प्रकारेण तमिळभाषाया: स्वस्रीया: भाषा: इति वक्तव्या: भाषा: तेलुगु, कन्नडम् इत्यादया: यत: ता: अपि सामान्याया: मौलिकभाषाया: उद्भूता:।

भाषाविज्ञानुसारेण प्रमाणितम् यत् केवलं तमिळभाषा मौलिकद्राविडाया: अक्षराणि सर्वाणि क्षीणात् संरक्षितवती इति। इतरा: द्राविडभाषास्तु विना कतिपयानि अक्षराणि मौलिकद्राविडायां उपलब्धानि इतराणि सर्वाणि व्यापन्नरुपेण एव व्यवहरन्ति।

Remove ads

तमिऴ् अक्षरमाला

Thumb
History of Tamil Script

तमिऴ्‌लिपौ ङ, ञ, ण, न, म इति अनुनासिक-वर्णाः देवनागरी-वर्णाः इव प्रयुज्यन्ते। तत्र क, च, ट, त, प इति पञ्चवर्गीयवर्णाः एव सन्ति।

स्वराः

अधिकसूचना तमिऴ्, देवनागरी ...

व्यञ्जनानि

अधिकसूचना तमिऴ्, देवनागरी ...


परकीय व्यञ्जनानि

अधिकसूचना तमिऴ्, देवनागरी ...

व्यञ्जनानां सह स्वर योगः

व्यञ्जनानां सह स्वरयोगरीतिः

अधिकसूचना योगरीतिः, युग्मरूपम् ...

व्यञ्जनानां सह स्वरयोगपट्टिका

अधिकसूचना स्वरवर्णाः → व्यञ्जनवर्णाः ↓, அ ...
अधिकसूचना स्वरवर्णाः → व्यञ्जनवर्णाः ↓, அ ...
Thumb
अनेकानाम् रूपानाम् वृद्धरपाणि सन्ति।





Remove ads

संयुक्ताक्षराणि

अधिकसूचना संयोगरीतिः, संयुक्ताक्षरम् ...

बाह्य गवाक्ष

Fonts and Encodings

  • Unicode Converter - Online JavaScript tool to convert various Tamil encodings into Unicode
  • Unicode Chart - Unicode Chart for Tamil (in PDF)
  • thamizh fonts - Has list of almost all Tamil fonts to download.
  • NLS Information - NLS Information page for Windows XP
  • kstarsoft Archived २०११-११-२९ at the Wayback Machine - UNICODE, TSCII, TAB, TAM and LIPI encoding - kstarsoft

वार्ता

  • Agathiyar, तमिऴ्-वार्ता
  • Kalaivani, मलयेशिया-तमिऴ्-वार्ता

अन्‍य

Remove ads
Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads