Map Graph
No coordinates found

अमरनाथः

amarnath

अमरनाथः हिन्दूनां पवित्रतमं तीर्थधाम अस्ति । भारतस्य जम्मूकाश्मीरराज्यस्य राजधान्याः श्रीनगरात् १४१ कि.मी. दूरे स्थितास्ति अमरनाथस्य गुहा । भगवतः शिवस्य हिमलिङ्गस्य प्राकृतिकरचना भवति गुहायाम् । अतः तस्य गुहायाः नाम अमरनाथस्य गुहा इति । 'बरफानि बाबा', 'अमरदेव' इत्यादिनामान्तराणि सन्ति अस्य देवस्य । गुहायां प्राकृतिकरीत्या पार्वती-गणेशप्रतिमयोरपि हिमेन रचना भवति । आषाढमासस्य पूर्णिमातः आरभ्य श्रावणमासस्य पूर्णिमापर्यन्तं यात्रायाः समयः अस्ति । तस्यां समयावधौ लक्षशः जनाः अमरनाथस्य दर्शनाय गच्छन्ति । क्लिष्टतमा एषा यात्रा भक्तानां मनोरथान् साधयति ।

Read article
सञ्चिका:Amarnath_shiv_ani.gifसञ्चिका:Cave_Temple_of_Lord_Amarnath.jpgसञ्चिका:Amarnath_yatra_1.jpgसञ्चिका:Amarnath_Yatra_2.jpgसञ्चिका:Amarnath_Yatra_3.jpgसञ्चिका:Yatra_4.jpgसञ्चिका:Yatra_4_2.jpgसञ्चिका:Yatra_5.jpgसञ्चिका:Yatra_6_.jpgसञ्चिका:Yatra_7.jpg