आत्मा
From Wikipedia, the free encyclopedia
अस्य शब्दस्य प्रथमः अर्थः अस्ति परमात्मा, ब्रह्म इति । अत (सातत्यगमने) मनिण् (उ ४-१५३) ।
- यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मेति कीर्त्यते ।
- आत्मेव दृष्टः सहसा प्रजानामादर्शनेच्छामितरेषु दत्ते - याद १८-१३
द्वितीयः अर्थ अस्ति जीवात्मा इति ।
- आत्मानं रथिनं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरम् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । - कठोपनिषत्