आन्ध्रप्रदेशराज्यम्
From Wikipedia, the free encyclopedia
आन्ध्रप्रदेश: (Andhra Pradesh) दक्षिणभारतस्य कश्चन राज्यम् अस्ति । पूर्वम् आन्ध्रप्रदेशः तमिलनाडुप्रदेश्च मिलित्वा आवर्तेताम् । ततः १९५६ तमे वत्सरे नवम्बर्-मासस्य प्रथमदिनाङ्के स्वतन्त्रप्रतिपत्तिं प्राप्य आन्ध्रप्रदेशः इति जातः । आन्ध्रप्रदेशे त्रयोविंशतिः मण्डलानि सन्ति । अत्र अधिकसंख्याकैः 'तेलुगु'भाषा उपयुज्यते । अमरावती आन्ध्रप्रदेशस्य राजधानी । राजधान्यां दर्शनीयानि स्थलानि बहूनि सन्ति । तेषु बिर्लामन्दिरं, सालार्जङ्ग्सङ्ग्रहालयः, चार्मिनार्भवनम् इत्यादयः प्रमुखाः । आन्ध्रप्रदेशस्य अन्यत् प्रसिद्धं नगरम् अस्ति विशाखपट्टणम् । अत्रत्यं समुद्रतीरम् अतीव रमणीयम् अस्ति । अत्र विद्यमानाः नौकानिर्माणागारं, तैलशुद्धिकर्मागारम् अयसः कर्मागारं च प्रसिद्धानि सन्ति ।
आन्ध्रप्रदेशराज्यम् | |
---|---|
— राज्यम् — | |
Nickname(s): Rice Bowl of India | |
Location of Andhra Pradesh in India | |
Coordinates (अमरावती, आन्ध्रप्रदेशः): 16.5°उत्तरदिक् 80.6°पूर्वदिक् / १६.५; ८०.६ | |
Country | भारतम् |
Established | 1 1956 (1956-11-01) |
Capital | अमरावती |
Largest city | अमरावती |
मण्डलानि | 13 total |
सर्वकारः | |
• Body | Government of India, Government of Andhra Pradesh |
• राज्यपाल | इ. एस्. एल्. नरसिंहन् |
• मुख्य मन्त्री | नारा चन्द्रबाबु नायुडु |
• विधायि मण्डल | विधान् सभा च विधान् परिषद् (175 + 56 पीठिकाः) |
• Deputy Chief Minister | दामोदर् राज नरसिम्ह |
• उच्च न्यायालय | आन्ध्रप्रदेशराज्य उच्च न्यायालय |
विस्तीर्णता | |
• संहतिः | १६०,२०५ km२ |
क्षेत्रविस्तारः | 8th |
जनसङ्ख्या (2011) | |
• संहतिः | ४९,६६५,५३३ |
• रैङ्क् | 8th |
IST (UTC+05:30) | |
ऐ एस् ओ ३१६६ कोड् | IN-AP |
HDI | 0.572 (medium) |
HDI rank | 20th (2005) |
Literacy | 67.77% (2011) |
Official language | तेलुगु (తెలుగు) |
Secondary language | उर्दु |
जालस्थानम् | ap.gov.in |
आन्ध्रप्रदेशे गोदावरी, कृष्णा, तुड्गभद्रा, पिनाकिनी, नागावली, वंशधारा प्रभृतयः प्रसिद्धाः नद्यः प्रवहन्ति । 'नन्दिकोण्डा' इत्येतस्य स्थलस्य समीपे 'नागार्जुनसागरः' निर्मितः । एतेषां कारणतः आन्ध्रप्रदेशः समृद्धः जातः अस्ति । गोदावरीमण्डलं 'भारतदेशस्य धान्यागारम्' इति प्रसिद्धं जातमस्ति । देवालयेषु 'वरङ्गल्'उपमण्डले विद्यमानः रामप्पदेवालयः चारित्रिकदृष्ट्या अतीव प्राचीनः । अस्मिन् रामायणमहाभारतकथाः अवलम्ब्य चित्राणि निर्मितानि सन्ति ।
आन्ध्रप्रदेशं शासितवन्तः इति।