इस्लाम्-मतम्
From Wikipedia, the free encyclopedia
इसलाम् (अरबी : الإسلام अल्-इस्लाम्) एकं एकेश्वरवादि यहूदी क्रैस्त मताभ्यां सदृशं आब्राहामीयमतम् च अस्ति।[1] कुरान्-शास्त्रं, मुहाम्माद्-भगवद्दूतस्य जीवनशैल्या(सुन्नह्) आचरणप्रवचनद्वारा(हदीस्) च दर्शिता तस्य व्याख्या च इस्लाम्-मतस्य आधाराः सन्ति। इस्लाम्-मतस्य अनुयायी मुसलिम् इति उच्यते।
मुस्लिम्-जनाः मन्यन्ते यत् भगवान् मात्र एकः अनुपमः च अस्ति।[2] मुस्लिम्-जनानां अयमपि विश्वासः यत् इस्लाम्-मतं तस्य मौलिकधर्मस्य सम्पूर्णं वैश्वनरं च रूपं अस्ति यः आदितः वारंवारं आदम्, नूह्, अब्राहाम्, मूसा, यीशुः चेति सदृशैः भगवद्दूतैः विवृतः आसीत्।[3] इस्लाम्-मतस्य पञ्चस्तम्भाः, ये पूजायाः मूलविधयः सन्ति, अपिच इस्लामीयनीतिः या व्यापारेण, समृद्ध्या, पारिवारिकजीवनेन, वातावरणेन च सदृशे जीवनस्य प्रत्येकविषये मार्गदर्शनं करोति इति इस्लामीयसिद्धान्तस्य मूलभागाः वर्तन्ते।[4]
इस्लाम्-मतस्य अनुचारिणां संख्या समग्रविश्वे प्रायः १४० कोटिपरिमितम् । मतमिदं संख्यादृष्ट्या द्वितीयबृहत्तमम्।[5] मुहम्मद्-भगवद्दूतस्य एवञ्च तस्य उत्तराधिकारिणां प्रचारेण इस्लाम्-मतम् आविश्वं व्याप्तम् जातम् अस्ति।[6] वर्तमाने समग्रे विश्वे मुस्लिम्-जनाः सन्ति, विशेषतः मध्यप्राच्ये, समग्र-एशियामहाखण्डे, आफ्रिकाखण्डे, पूर्व-यूरोपखण्डे, अधिकतया सन्ति।[7] अमेरिका-सह पार्श्वस्थदेशेषु अपि इस्लाम्-मतं द्वितीयबृहत्तममतम् अस्ति।[8][9]