झारखण्डराज्यम्
From Wikipedia, the free encyclopedia
झारखण्डराज्यं (Jharkhand)(हिन्दी - झारखण्ड; बङ्गला - ঝাড়খন্ড; उर्दु - جھاڑکھنڈ) भारतस्य मध्यपूर्वभागे विद्यमानं किञ्चन राज्यम् । बिहारस्य दक्षिणभागतः इदं राज्यं २०००तम वर्षस्य नवेम्बर्मासस्य १५ दिनाङ्के निर्मितम् अस्ति । अस्य राज्यस्य उत्तरदिशि बिहारराज्यं, पश्चिमदिशि उत्तरप्रदेशः छत्तीसगढराज्यं , दक्षिणदिशि ओरिस्साराज्यं, पूर्वदिशि पश्चिमबङ्गालराज्यं च वर्तते । अस्य राज्यस्य विस्तारः ७९, ७१४ च कि मी मितः । औद्योगिकनगरं राँची अस्य राजधानी । जमशेदपुर अस्य राज्यस्य बृहत्तमम् औद्योगिकं नगरम् । अन्यानि प्रमुखानि औद्योगिकनगराणि नाम धनबाद , बोकारो, हजारीबाग च । झारखण्डः नाम अरण्यानां प्रदेशः इत्यर्थः । अत्र अधिकतया आदिवासिजनाः निवसन्ति । राज्ये पर्वताः, प्रपाताः, जलपाताः, नद्यः, वनानि च अतीवाकर्षकाणि सन्ति । एतत् राज्यं Pure Pristine , Pictureque इति उक्तवन्तः सन्ति। बेट्ला, हजारीबाग, पलामु राष्ट्रियोद्यानानि सन्ति । नेतर् हाट् पर्वतधाम अतीवं सुन्दरं प्रेक्षणीयम् स्थानमस्ति । एतत् स्थानं छोटानागपूरस्य राज्ञी इति निर्दिशन्ति । टोप चाञ्ची , दुमका इत्यादीनि अत्रत्यविहारस्थानानि सन्ति ।
झारखण्डराज्यम् | |
---|---|
झारखण्डराज्यस्य स्थाननिर्देशः भारते | |
झारखण्डराज्यस्य मानचित्रम् | |
देशं | भारतम् |
वलयाः | अङ्गिका, भोजपुरम्, मैथिली, खोरठा |
विभागः | सन्थाल परगना विभागः, दक्षिणी छोटानागपुर विभागः, उत्तरी छोटानागपुर विभागः, पलामू विभागः |
स्थापना | १५ नवम्बर २००० |
राजधानी | राँची |
उपराजधानी | दुमका |
Government सरकार | |
• राज्यपाल | द्रौपदी मुर्मू |
• मुख्यमंत्री | रघुबर दास (भाजपा) |
• विधानसभा | एक सदनात्मक (८१) |
• लोकसभा | १४ |
• विधान सभा अध्यक्ष | सी पी सिंह |
Area ७९७१४ वर्ग कि.मी. | |
• Total | ७९७१४ वर्ग कि.मी. km२ |
Area rank | = १५ |
Population (२०११)३२९६६२३८ | |
• Total | ३२९६६२३८ |
• Rank | १३ |
• Density | ४१४/km२ |
Time zone | UTC+०५:३० (IST) |
ISO 3166 code | IN-JH |
मानव विकास सूचकांक | 0.513 (medium) |
मानव विकास सूचकांक स्थान | 24th (2005) |
साक्षरता प्रतिशत (स्थान) | ६७.६३% (२७) |
आधिकारिक भाषा | हिन्दी |
Website |