From Wikipedia, the free encyclopedia
तृतीयपानिपत्युद्धम् 14 जनवरी तमे दिने 1761 तमे वर्षे देहल्याः 97-किमिदूरे पाण्डवप्रस्थे मराठाफ़्घानपक्षयोर्मध्ये अभूत्। अफ़्घानपक्षस्य नेतृत्वं तु अफ़्घाननरेशः अब्दालिः अपिच रोहिल्लदलम् अवधनरेशः कृतवन्तः। अस्मिन् युद्धे मराठासेनायाः शातग्निः अश्वानीकञ्च आसन् एवम् अफ़्घानसेनायाः अब्दालिनजीबुद्दौलाहनायकत्वे संवीताश्वानीकम् हयारूढशातग्निश्च आसन्।
युद्धमिदं 18-तमस्य शताब्दस्य बहु महत्त्वपूर्णम् अस्ति। [1] प्राचीनरीत्या घटितेषु युद्धेषु अस्मिन् युद्धे हताहतस्य अधिकतमा संख्या आसीत् इति मन्यन्ते इतिहासविद्वांसः।
युद्धस्य स्थानं विवादास्पदमस्ति इतिहासविद्वद्भ्यः परन्तु काला आम्ब् सनौली वीथ्याम् आसीत् इति चिन्तनम् । युद्धे बहुषु दिनेषु 1,25,000 सैनिकाः युद्धं कृतवन्तः। प्रदीर्घानि घर्षणानि घटितानि येषु द्वयोः पक्षयोः हानिः लाभोऽपि जाताः। अब्दालिः बहून् मराठापार्श्व-भागान् ध्वस्त्वा विजयम् प्राप्नोत्। हताहतसङ्ख्या इतिहासकारैः अति विवदिता, परन्तु 60,000–70,000 मारिताः इति मन्यन्ते एवमेव बन्धितानां व्रणितानां संख्याः विविधाः सन्ति। 40,000 बन्धिनः मराठासैनिकाः युद्धानन्तरं नरसंहारे मारिताः इति अवधनरेश-शुजाउददौलस्य मन्त्रिणा काशीराजेन लिखितम्।[2]
ग्रैण्ट्डफ़ेन लिखिते "History of the Marathas" इति नाम्ना पुस्तके अतिजीवितेन मराठासैनिकेन विवरणम् अस्ति येन पूर्वोक्ताम् संख्या दृढीकृता।
1,00,000 हतसंख्यास्ति इति शेजवालकरेण लिखिते "Panipat 1761" इति विवरणे उक्तम्।[3]
युद्धानन्तरम् मराठासाम्राज्यस्य उत्तरे विस्तारः दशवर्षपर्यन्तम् स्थगितः अभवत् यस्मात् उत्तरभारते राजनैतिकस्थितिः अस्थिरासीत्। युद्धानन्तरम् मराठापन्तप्रधानः पेशवामाधवरावोऽभवत् येन मराठासाम्राज्यं पुनरपि दृढीकृतम्। 1771 तमे वर्षे माधवरावेन उत्तरे शासनम् स्थापितुम् अपिच अफ़्घानपक्षस्य दलान् ध्वंसितुम् विशालसेना प्रेषिता। तदानन्तरम् पानीपतयुद्धपर्वम् समाप्तमभवत्।
मुघलसाम्राज्यपतनकाले मराठासेनाः उत्तरदिशि मराठाराज्यस्य विस्तारम् कृतवत्यः। पन्तप्रधान-बाजीरावस्य नायकत्वेन गुजरातमालवाराजपूतानाप्रदेशाः मराठाशासनस्याधीनत्वमगच्छन्। 1737 तमे वर्षे बाजीरावेण मुघल्सेना देहल्याम् बहिर्प्रान्ते पराजिता तथा देहल्याम् दक्षिणम् तावत् मराठाशासनस्याधीनत्वं गतम्। बाजीरावपुत्र-बालाजिबाजीरावेण पञ्जाबमपि 1758 तमे वर्षे सेना प्रेषिता। ततः मराठाब्दाल्योः मध्ये युद्धम् आरब्धम्। 1759 तमे वर्षे पश्तूनबलोचगणैः साकम् अब्दालिसेना पञ्जाबे मराठासेनाम् पराजितवती। समस्थल्याम् रोहिल्लाफ़्घानगणैः साकम् मराठासेनाविरुद्धम् अभियानम् आरब्धवान् अब्दालिः। मराठासेना सदाशिवभावनायकत्वेन 45000-60000 सैनिकैः अपिच 200,000 तीर्थयात्रिभिः उत्तरे अगच्छत्। मराठासेना पातुर-नगरतः यात्राम् 14 मार्च 1760 दिनाङ्के आरब्धवती। उभाभ्याम् पक्षाभ्याम् अवधनरेशः स्वपक्षं प्रति आमन्त्रितः। जुलैमासान्ते शुजाउद्दौलः अब्दालिपक्षस्य समर्थनं कर्तुं निर्णयम् कृतवान्। शुजस्य आर्थिकबलेन अब्दालिपक्षः दृढोऽभवत् यतोहि सामरिकरूपेण अवधनरेशाब्दाल्योः संधिः मराठासेनायै हानिकारकः आसीत्। शुजस्य आर्थिकसहाय्यं विना अफ़्घानपक्षस्य अभियानम् नाशक्यत इति शङ्क्यते।[उद्धरणं वाञ्छितम्]
1707–1757काले मराठासेनया भारतस्य उत्कृष्टभागम् विजितम्। 1758 तमे वर्षे मराठासैन्यबलम् अब्दालिपुत्रं तैमूर्शाहं पराजितवत्, देहलीं लाहोरं (लवपुरं) च विजितवत्।[4] मराठासाम्राज्येन उत्तरदिशि सिन्धुनदीहिमालयपर्यन्तं दक्षिणदिशि इन्दुसागरपर्यन्तं विस्तारशिखरम् प्राप्तम्। मुघल्साम्राज्यम् तदानीम् केवलम् देहल्याम् आसीत्। इस्लाममतोन्मादाः विचारकाः हिन्दुमराठासेनया भीताः अभवन् अपिच मराठाविर्रुधम् अभियानम् कर्तुम् अब्दालेः आह्वानं कृतवन्तः।[उद्धरणं वाञ्छितम्][5]
सिंधियापक्षः नजीबपक्षम् प्रहरति स्म किन्तु नजीबपक्षः स्वरक्षामकरोत्। मध्याह्नसमये मराठाविजयम् निश्चितः इव दृष्टः। अफ़्घानवामपार्श्वभागः सुरक्षितः किन्तु मध्यपार्श्वभागः भागद्वये भग्नः एवमेव दक्षिणपार्श्वभागः प्रायः पूर्णतया ध्वंसितः। तथा अब्दालिना पृष्ठतः लघुनालिकाश्वरोहिपक्षस्य उष्ट्रनालपक्षस्य 15000 सहायसैनिकाः अपिच अग्रे प्रेषिताः।[6]
सदाशिवभावः मराठासेनायाः पृष्ठे पलायितान् सैनिकदलान्, निर्हेतीन् तीर्थयात्रिणः, सहायसैन्यस्य अभावम्, विश्वासरावस्य युद्धे अदृश्यत्वं इत्यादीन् सर्वान् दृष्ट्वा स्वस्य कुञ्जरतः लङ्घनम् कृत्वा अग्रे युद्धम् कर्तुम् गतवान्। विश्वासरावः मस्तके गोलिकाप्रहारेण मृत्युम् उपगतवान्। सदाशिवभावः अङ्गरक्षकैः साकम् आमरणम् युद्धं कृतवान्। सदाशिवस्य त्रयः अश्वाः मारिताः। युद्धे पराजयम् निश्चितम् इति ज्ञात्वा मल्हाररावहोल्करः स्वसेनादलेन सह पलायितः। मराठासेना पराजिता जाता। 15000 सनिकैः ग्वाल्यिरनगरः अगम्यत परन्तु शेषसेनिकाः निर्हेतयः च मारिताः।[4]
अब्दालिसेना मराठासेनायाः अपि महत्तरा अपिच सुकल्पिता। मराठापादसेना युरोपदेशीया सेना इव रचिता अपिच फ़्रान्स्देशीयाभिः शतघ्नीभिः सुस्सजिता परन्तु मराठाशतघ्न्यः अफ़्घान्दलस्य शतघ्न्यः इव न गतिशीलाः। अफ़्घान्शतघ्न्यः मराठाशतघ्नीभ्यः अपि शक्तिवत्यः।[7]
एवमेव मराठासेनापतयः कलहकारिणः आसन्। सर्वाः एव स्वातन्त्रराज्यानि स्थापितुम् ऐच्छन् तथा सामान्यशत्रुम् विरोधयितुम् नाशक्यत।[8] युद्धरचनाविषये निर्णीतस्य चक्रव्यूहस्य काश्चन नायकाः समर्थनम् नाकुर्वन् अपितु आकस्मिक-प्रहाराणां प्रस्तावमकुर्वन्।[उद्धरणं वाञ्छितम्] मराठासैनिकाः पुणेतः 1000 मीलदूरे एकाकिनः अयुध्यत।[9]
पेशवाबालाजिबाजीरावेन मळ्हाररावरघुनाथरावयोः स्थाने सदाशिवरावस्य नियोजनम् दुर्भाग्यपूर्णम् आसीत् यतोहि सदाशिवरावेन उत्तरभारतस्य भूगोलिकराजनैतिकपरिस्थितयः न ज्ञाताः।[10]
यदि होल्करः पलायनं नाकरोत् तथापि मराठाविजयम् असंभवम्। यदि होल्करेण समर्थिता सहसाप्रहारनीतिः स्वीकृता जाता तर्हि विजयम् सम्भवम् इति मन्यन्ते इतिहासकाराः। अब्दालिः अधिकसमये भारतक्षेत्रे सेनायाः पोषणं कर्तुं न अशक्नोत्।[11]
अफ़्घान्सेनायाः अश्वारोहीनः शूलधारिनः च पानिपतवीथीषु करुणं विना दशसहस्रशः सैनिकान् तीर्थार्थिनः मारितवन्तः।[3][2] स्त्रियः बालाः दास्यम् गतवन्तः। 14 वर्षात् वयोधिककानां शिरांसि स्वजनसम्मुखे छिन्नानि कृतानि। येषाम् स्वजनाः मारिताः ताः अफ़्घाननायकाः हिन्दून् मारितुम् पानीपते अन्यक्षेत्रे च अनुमताः।[12] शिरसाम् सङ्ग्रहाः शिबिरबहिः स्थापिताः। युद्धानन्तरम् 40000 मराठासैनिकाः मारिताः इति शुजाउद्दौलहस्य मन्त्रिणा युद्धे साक्षिणा च काशिराजेन लिखितम्।[3][2] पानिपते अर्धलक्ष्याः मराठीजनाः आसन् युद्धे 40000 हताहताः इति हामिल्टन्वर्यस्य बाम्बेगजेट्समाचरपत्रे लिखितम्।[उद्धरणं वाञ्छितम्] मराठानार्यः पनिपते बालात्कारभयात् स्वहत्याम् कर्तुम् कूपेषु पतिताः।[12]
बन्धिनः ऋषभशकटानाम् उष्ट्राणाम् कुञ्जराणाम् च उपरि आरूढानां पञ्चराणाम् अन्तः बद्धाः अपहृताश्च।[12]
सियारउतमुताखिरिनः अलिखत्:[12]फलकम्:Full
“ | दुःखिनः बन्धिनः बहुदीर्घायाः अनुपङ्क्तेः आनीताः स्वंल्पखाद्यम् पेयजलम् च प्राप्ताः तर्हि विमस्तकिताः, नार्यः बालकाः दास्यम् गतवन्तः - 22000 सर्वे एव श्रीमन्तः | ” |
विश्वासरावभावयोः मृतदेहौ प्राप्तौ तथा अन्त्यक्रिया जाता।[13] भावभार्या पार्वतीबायी होल्करेण रक्षिता पुणेनगरे अगच्छत्। असूचितः पेशवाबालाजीबाजीरावः नर्मदातटे समाचारम् प्राप्नोत्। सः शोकपूर्णः पुणे प्रतिगतवान् एवम् शोककारणात् मृत्युम् गतवान्।[4]
नजीबस्य प्रचोदनेन जङ्कोजिसिन्धियासेनापतिः बन्धितः ततः मारितश्च। अफ़्घान्सैनिकैः इब्रहीम्गार्दीसेनापतिः प्रपीडितो मारितश्च।[13] पराजितस्य मराठाराज्यस्य शक्तिः लघूकृता, तथापि पूर्णभारते प्रबलतमं राज्यमासित्। दशवर्षानन्तरं देहली पुनर्विजिता। किन्तु पराजयस्य पञ्चाशत्वर्षानन्तरं आङ्ग्लैः त्रिषु युद्धेषु साम्राज्यम् समाप्तम् जातम्। [14]
युद्धे जाटराज्ञः सूरजमलस्य अनुपस्थितः ततः तस्य हानिः न जाता। जाट्राज्यम् पलायितेभ्यः मराठासैनिकयात्रिभ्यः सहाय्यम् प्रदीयते स्म।
परंतु सूरजमलः नजीबविरुद्धम् 1763 तमे वर्षे युद्धे हतो जातः। [उद्धरणं वाञ्छितम्]
अब्दालिः अल्पकाले उत्तरभारतस्य विजेयता असीत्। परन्तु स्वस्य सेनापतीनाम् सामन्तानाम् वादानुवादम्, वेतनस्य अभावतः सैनिकानाम् असन्तुष्टिः, भारतस्य उष्णवातावरणम्, अन्यमराठासेनायाः लक्षसैनिकानाम् प्रतिकाराय स्वजनरक्षाणार्थम् च दक्षिणतः आगमनस्य किंवदन्ती इत्यादिभ्यः कारणेभ्यः अब्दालिदलं छिन्नं जातम्। [उद्धरणं वाञ्छितम्]
अब्दालिः संग्रामे विजयं प्राप्तवान् किंतु स्वसैन्यस्य तीव्रं नष्टम् जातं, तर्हि सः मराठादलाय शान्तिप्रस्तावम् अप्रेषयत्।
इत्यादिभ्यः परिस्थितिभ्यः सः अब्दालिः भारतात् गतवान् किन्तु कदापि न प्रत्यागतवान्। अपगमनात् पूर्वम् भारतस्य सर्वान् शासाकान् रोबर्ट्क्लाइवम् चापि शाह-आलमः सम्राट् इति मन्यताम् इति आज्ञापितवान् सः।[15]
नजीबः सम्राजः प्रतिनिधिः इव नियुक्तः अपिच नजीबः मुनीरश्च चत्वारिंशत्लक्ष्यरुप्यकाणि प्रतिसंवत्सरे अब्दालिम् प्रेषयताम् इति आज्ञापितौ।[15] उत्तरभारते अब्दालेः इदम् अन्तिमम् युद्धाभियानम् आसीत् यर्हि सीखाः सफल-विप्लवान् कृतवन्तः।[16]फलकम्:Pn युद्धतः लाभः तु अल्पः एव आसीत्। 16-अक्तोबर्मासे 1772 वर्षे सः गान्धारे मृत्युम् गतः।
शुजाउद्दौलः अफ़्घान्दले स्वस्य मेलनेन पश्चात्तापम् अन्वाभवत्। स्वजनाः शियावर्गतः आसन् किन्तु अफ़्घान्दले शुन्निवर्गिनः आसन् तर्हि मतभेदः उत्पन्नः। सः सदाशिवाय गुप्तचरैः प्रेषिते पत्रे अफ़्घान्दले मेलनेन पश्चात्तापस्य प्रकटितवान्।[उद्धरणं वाञ्छितम्]
युद्धानन्तरम् फ़ैजुल्लाह्खानाय शिकोहाबादम् अपिच सादुल्लाह्खानाय फ़िरोजाबादम् प्रदत्तम्। नजीबः साधुः शासकः आसीत् किंतु 1770 मरणोत्तरे रोहिल्लराज्यम् ईस्ट्इण्डियाकम्पन्या पराजितम्।[उद्धरणं वाञ्छितम्]
मराठासाहसम् अब्दालिना प्रशंसितम्।[17]
अस्मिन् युद्धे एकस्मिन् दिने एव हताहतस्य संख्या तीव्रास्ति। भारतपाकिस्थानयोः युद्धेभ्यः पूर्वम् जम्बूद्वीपस्य द्वयोः स्थानीयसेनयोः मध्ये युद्धमिदमन्तिममस्ति।
स्वराज्यम् रक्षितुम् मुघलाः अफ़्घान्दलस्य आह्वानम् देहलीं प्रति अकुर्वन्। मुघलाः अल्पेषु क्षेत्रेषु एव शासनम् कर्तुम् अशक्नुवन् अपिच सैन्यशक्तिः अतः परम् न्यूना जाता। 1857 वर्षे विफलविप्लवे भागम् अवहत् इति आङ्ग्लैः आरोपितः तदनन्तरम् मुघाल्साम्राज्यम् समाप्तम् जातम्।
मराठाविस्तारम् स्थगितम् जातम् अपिच आन्तरिक-वादविवादम् उत्पन्नम्। माधवरावस्य शासनकाले मराठादलं पुनः प्रबलं भूत्वा तथैव 1771 तमे वर्षे उत्तरभारते शासनम् स्थापितवत् देहलीम् पुनर्विजितवत् च। माधावरावस्य निधनात् वादविवादम् पुनरुत्पन्नम् तथा आङ्ग्लैः पराजयम् जातम्, 1818 वर्षे मराठासाम्राज्यस्य समाप्तिः जाता।
अस्मिन् काले येषाम् विप्लवस्य कारणेन अब्दालिः युद्धम् आरब्धवान् ताः सीखाः तु अप्रभाविताः आसन्। ते पुनर्विजितवन्तः लाहौरम् (लवपुरम्) पुनरजयत। अब्दालिः मार्च्मासे 1764 वर्षे पुनरागतः किंतु अफ़्घानिस्थाने द्रोहात् सप्ताहद्वायानन्तरम् प्रत्यागतवान्। 1767 वर्षे अपि पुनरागतः किंतु किमपि सङ्घर्षम् जेतुम् अशक्तः आसीत्। स्वस्य सैनिकाः सदा वेतनस्य अभावात् कुप्ताः आसन् तर्हि अब्दालिः पुञ्जाबम् सिखेभ्यः अत्यजत्। 1849 पर्यन्तम् सिखशासनम् अभवत् तत्वर्षानन्तरम् आङ्ग्लशासनम् आसीत्।
रड्यार्ड्किप्लिन्गस्य "सिन्धियासह देह्ल्याम्" इति काव्ये इदम् युद्धम् स्मृतम्।
मराठाशौर्यप्रदर्शनम् अपि स्मर्तव्यम्। संताजीवाघ्वर्यस्य शवः चत्वारिंशदाधिकम् घातकक्षतैः सह लब्धः। विश्वासरावसदाशिवयोः साहसम् अफ़्घान्दलेनापि प्रशंसितम्।[18]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.