From Wikipedia, the free encyclopedia
पद्मपुराणम् (Padma Purana) अष्टादशसु महापुराणेषु अन्यतमम् अस्ति | अस्मिन् पुराणे पञ्च खण्डाः सन्ति - सृष्टिखण्डः, भूमिखण्डः, स्वर्गखण्डः, पातालखण्डः, उत्तरखण्डः च | 'क्रियायोगसार'नामिका भक्तितत्वनिरूपकः खिलभागः अपि अस्मिन् विद्यते |
सृष्टिखण्डः भीष्म-पुलस्त्ययोः संवादरूपेण वर्तते | प्रसिद्धयात्रास्थलस्य पुष्करतीर्थस्य माहात्म्यम् अत्र वर्णितम् अस्ति |
अस्मिन् खण्डे भूमेः भौगोलिकं विवरणम् अस्ति | पृथोः ययातेः च कथानकं वर्तते | प्राज्ञाः वदन्ति यत् अत्र उपलभ्यमानानि भौगोलिकानि ऎतिहासिकानि च विवरणानि विश्वासयोग्यानि सन्ति इति |
स्वर्गखण्डे ब्रह्माण्डस्य उगमः विस्तृतरूपेण वर्णितः अस्ति | तीर्थक्षेत्राणां महत्त्वम् अत्र दर्शितम् अस्ति | जम्बूद्वीपस्य भौगोलिकविस्तारः लक्षणानि च स्पष्टतया अत्र निरूपितानि सन्ति |पर्वतनद्यादीनां विवरणम् अत्र प्राप्तुं शक्नुमः | प्राचीनकालीनभारतीयानां विषये अपि इतः वयं ज्ञातुं शक्नुमः |
पातालखण्डे उग्रश्रवः ऋषिगणम् उद्दिश्य भगवतः विष्णोः अवतारिणः रामस्य कथाम् अवदत् |अस्मिन् भगवतः कृष्णस्य जीवनविषयः अपि उपवर्णितः अस्ति | षोडशाध्यायैः युक्तः अयं पातालखण्डः शिवगीतम् इत्यपि प्रसिद्धः अस्ति |
उत्तरखण्डे शिवपार्वत्योः संवादः दृश्यते | विषयस्तु धर्मस्य मूलतत्त्वानि | अत्र विष्णुसहस्रनाम अपि विभिन्नप्रकारेण दत्तः अस्ति |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.