![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c8/Western-Ghats-Matheran.jpg/640px-Western-Ghats-Matheran.jpg&w=640&q=50)
पश्चिमघट्टाः
From Wikipedia, the free encyclopedia
पश्चिमघट्टाः भारतस्य पश्चिमभागे स्थिता पर्वतश्रेणी । अस्याः सह्यपर्वतम् इति अपरं नाम अस्ति । दक्षिणप्रस्थभूमौ पश्चिमदिग्भागे व्याप्तः पश्चिमघट्टप्रदेशः पीठभूमिम् अरब्बिसमुद्रस्य सूक्ष्मम् कोङ्कण प्रदेशात् पृथक करोति । महाराष्ट्र – गुजरातराज्ययोः सीमाप्रदेशे तपतीनद्याः दक्षिणे आरब्धा एषा श्रेणी दक्षिणाभिमुखं कन्याकुमारी पर्यन्तम् दृश्यते । आहत्य १६०० कि.मी यावत् व्याप्तः पश्चिमघट्टप्रदेशः महाराष्ट्रम्, गोवा, कर्णाटकम्, केरळम्, तमिळ्नाडु राज्येषु अन्तर्भवति । अर्धादधिकभागः कर्णाटकराज्ये अस्ति । पश्चिमघट्टप्रदेशः आहत्य ६०,००० च.कि.मी. प्रदेशे व्याप्तः, सङ्कीर्णनदीव्यवस्थायाः मूलं च अस्ति । अत्र सञ्जाताः नद्यः भारतस्य जलानयनप्रदेशस्य ४०% भागं प्रति जलव्यवस्थां कुर्वत्यः सन्ति । घट्टप्रदेशस्यास्य (माकिम्) सर्वसामान्यम् औनत्यम् १२०० मीटर् यावत् भवति । एषः प्रदेशः विश्वस्य अत्यन्तं सक्रियेषु जीववैविध्याश्रयेषु अन्यतमः।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/f/f1/Indiahills.png/320px-Indiahills.png)
पश्चिमघट्टाः | |
---|---|
विश्वपरम्परास्थानानि | |
![]() | |
राष्ट्रम् | ![]() |
प्रकारः | सांस्कृतिकम् |
मानदण्डः | |
अनुबन्धाः | |
क्षेत्रम् | एषियापेसिफिक् |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | क्रि.श.२०१२ (Unknown सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |