बाङ्गलाभाषा
From Wikipedia, the free encyclopedia
बाङ्गला भाषा (/bɛŋˈɡɔːli/[2] अथवा बेङ्गाली /bɑːŋlɑː/; वङ्ग: বাংলা) एका आर्यभाषा अस्ति । बाङ्गलादेशे, भारतस्य पश्चिमवङ्गराज्ये, त्रिपुरा-असमराज्ययोः केषुचित् मण्डलेषु च जनाः वङ्गभाषया व्यवहरन्ति । भाषापरिवारदृष्ट्या इयं हिन्द्-युरोपीयभाषापरिवारस्य सदस्या । अस्मिन् परिवारे विद्यमानाः अन्याः भाषाः - हिन्दी, नेपाली, पञ्जाबी, गुजराती, असमिया, ओडिया, मैथिली इत्यादयः । वङ्गभाषया सम्भाषणकर्तॄणां सङ्ख्या अस्ति २३ कोटिपरिमितम् । विश्वस्य अधिकैः जनैः भाष्यमाणासु भाषासु वङ्गभाषा षष्ठे स्थाने विद्यते । बाङ्गलादेशं भारतञ्च विहाय विश्वस्य अन्येषु भागेषु अपि अनया भाषया सम्भाषणकर्तारः अधिकाः सन्ति ।
त्वरिततथ्यानि बाङ्गला भाषा, विस्तारः ...
बाङ्गला भाषा | |
---|---|
বাংলা | |
बाङ्गली लिप्या बाङ्गला शब्दः | |
विस्तारः | बाङ्गलादेशः, भारतम् (प्रधानतया पश्चिमबङ्गः, त्रिपुरा, झारखण्डः, अण्डमाननिकोबारद्वीपसमूहः तथा असमराज्यस्य बराकप्रदेशः); |
स्थानीय वक्तारः |
१९३ मिलियन् आहत्य २३० मिलियन् (२००३)[1] |
भाषाकुटुम्बः |
हिन्द्-यूरोपीयन
|
लिपिः | बाङ्गला लिपिः |
आधिकारिकस्थितिः | |
व्यावहारिकभाषा |
बाङ्गलादेशः, भारतम् (पश्चिमबङ्गः, त्रिपुरा) |
नियन्त्रणम् |
बाङ्गला एकाडेमी (बाङ्गलादेशः) पश्चिमबङ्ग बाङ्गला एकाडेमी (पश्चिमबङ्गः) |
भाषा कोड् | |
ISO 639-1 | bn |
ISO 639-2 | ben |
ISO 639-3 | ben |
Linguasphere |
59-AAF-u 59-AAF-ua ...59-AAF-uk |
विश्वे बाङ्गलाभाषायाः विस्तारः |
पिदधातु