नव रसाः
From Wikipedia, the free encyclopedia
विभावाऽनुभावसात्त्विकव्यभिचारिभावसमुल्लासितस्स्थायिभावः एव रसः ।
शृंङ्गाराद्धास्यः, रौद्रात्करुणः, वीरादद्भुतः, बीभत्साद्भायानकश्चोत्पद्यते इति नाट्यशास्त्र- श्रृङ्गारतिलकादिषु प्रतिपादितम् । एषु रसेषु महाकाव्ये श्रृङ्गारवीरयो रन्यतरः प्रधानो भवेदिति, अन्ये रसाः अङ्गरसाः भवेयुरिति च बहवः आलङ्कारिकाः प्रत्यपादयन् । साहित्यदर्पणकारश्शान्तस्यापि प्राधान्यमङ्गीचकार । धर्मानुबध्दस्य श्रृङ्गारस्य धर्मरक्षणदक्षस्य वीरस्य च लोककल्याणहेतुत्वं तयोः प्राधान्यं सम्पादयति ।
श्रृङ्गारस्य रतिः , हास्यस्य हासः, करुणस्य शोकः, वीरस्योत्साहः, भयानकस्य भयं, बीभत्सस्य जुगुप्सा, रौद्रस्य क्रोधः, अद्भुतस्य विस्मयः, शान्तस्य शमश्च, स्यायिभावाः भवन्ति । एते स्थायिनो भावास्सामाजिकानां मनस्सु वासनारुपतयता वर्तमाना स्सन्तो विभावादिभिः पोष्यमाणाः रसतामाप्नुवन्ति । एते च सजातीयैर्विजातीयैश्च भावैरतिस्कृतस्वरुपास्सन्तस्सामाजिकानां हृदयेषु रसानुभूतिपर्यन्तमवतिष्ठन्ते ।
विवक्षितस्यार्थस्य प्रतिपादनाय यद्वाक्यं प्रयुज्यते तत् आज्ञाप्रधानम्, अनुनयप्रधानम्, प्रार्थनाप्रधानं चेति त्रिविधम् । तत्र आज्ञाप्रधानं शास्त्रम् । तत्प्रधानत्वादेव इदं स्वरूपेण संक्षिप्तं शब्दप्रधानं च । तत्प्रधानत्वादेव इदं विस्तृतम् अर्थप्रधानं च । प्रार्थनाप्रधानं तु काव्यम् । तत्प्रधानत्वादेव इदं विस्तृततरं व्यापारप्रधानं च, तदुक्तं भट्टनायकेन –
- शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग्विदु: ।
- अर्थे तत्त्वेन युक्ते तु वदन्त्याख्यानमेतयो: ॥
- द्वयो: गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेत् ।
विस्तृततरत्वे कल्पितार्थस्य सद्भाव: कारणम् । नहि कल्प्यमानस्यार्थस्य इयत्तां ब्रह्मापि निश्चिनोति । अत एवाभिहितं ध्वनिकारेण –
- अपारे काव्यसंसारे कविरेक: प्रजापति: ।
- यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥
एतादृशे काव्ये शब्दार्थौ शरीरम्, रसादिरात्मा, गुणा: शौर्यादिवत्, अलङ्कारा: कटककुण्डलादिवत्, रीतयोऽवयवसंस्थानविशेषवच्च भान्तीति नवीनानां मम्मटादीनां मतम् । ननु रसो नाम क:? किं तावत् तस्य लक्षणम्? इति चेत् – उच्यते, रस्यते आस्वाद्यते इति रस: । रस आस्वादनस्नेहनयो: इति धातो: चौरादिकात् रसयते: 'कृत्यल्युटो बहुलम् [पा.सू. ३.३.११३] इत्यनेन कर्मणि बाहुलके अच्प्रत्यये निष्पन्नोऽयं शब्द: आस्वादनीयेऽथेर् वर्तते । आस्वादनीयोऽर्थश्च नाम्रचूतादिफलम् किन्तु रत्यादि: चित्तवृत्ति: । ततश्च आस्वादनीयो रत्यादि: रस इत्युक्तं भवति । तल्लक्षणं चोक्तं दर्पणकारेण –
- सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मय: ।
- वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदर: ॥
- लोकोत्तरचमतकारप्राण: कैश्चित् प्रमातृभि: ।
- स्वाकारवदभिन्नत्वेनायमास्वाद्यते रस: ॥तृ.प का – २,३.
यद्यप्यत्र आस्वादनं कथमित्युच्यते तथापि तेन सह तस्य लक्षणमपि स्पष्टं विदितं भवति । ननु काव्ये कथं तस्य निष्पत्ति:? उच्यते, उक्तं भरतेन – विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्ति: । अस्यायमर्थ: - काव्ये विभाव: अनुभाव: व्यभिचारिभावश्चेति त्रिविधा अर्था: सन्ति । तेषामर्थानां बुद्धौ यदा समावेशो भवति तदा स्थायी भावो रसो भवति ॥ एतेन विभावादित्रयं निष्पादकं भवति, रत्यादिश्च निष्पाद्य:, सहृदयस्य चित्तं च तन्निष्पत्तौ अधिकरणम् इत्युक्तं भवति । विभावादयश्चार्था: के इति जिज्ञासायां मम्मट आह काव्यप्रकाशे –
- कारणान्यथ कार्याणि सहकारीणि यानि च ।
- रत्यादे: स्थायिनो लोके तानि चेन्नाट्यकाव्ययो: ॥
- विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिण: ।
- व्यक्त: स तैर्विभावाद्यै: स्थायी भावो रस: स्मृत: ॥च.उ. का – २७,२८.
लोकदृष्ट्या रत्यादिं चित्तवृत्तिं प्रति यत् कारणम्, यत् कार्यम्, यच्च सहकारिकारणं तान्येव काव्ये विभावादिशब्देन व्यपदिश्यन्ते इति बोध्यम् । तत्र विभाव्यते आविष्क्रियतेऽनेन रत्यादिरिति विभाव: । आविर्भावे आविर्भावितस्य उद्दीपने च साधनमित्यर्थ: । अत एव तदालम्बनम् उद्दीपनं चेति द्विविधम् । स आलम्बनविभाव इत्युच्यते, यमालम्ब्य रत्यादि: आविर्भवति, यथा – शकुन्तलामालम्ब्य रतिराविर्भवतीति दुष्यन्तनिष्ठां रतिं प्रति शकुन्तला आलम्बनविभाव: । दुष्यन्तमालम्ब्य च रतिराविर्भवतीति शकुन्तलानिष्ठां रतिं प्रति दुष्यन्तोऽपि । यथा च – दुर्योधनमालम्ब्य क्रोध आविर्भवतीति भीमसेननिष्ठक्रोधं प्रति दुर्योधन आलम्बनविभाव: । एवमन्यदपि बोध्यम् । स पुन: उद्दीपनविभाव इत्युच्यते, येन आविर्भूतस्य रत्यादेरुद्दीपनं भवति, यथा – दुष्यन्तनिष्ठां शकुन्तलाविषयिकां शकुन्तलानिष्ठां च दुष्यन्तविषयिकां रतिमुद्दीपयतीति चन्द्रिकाभ्रमरझङ्कारप्रभृतय: उद्दीपनविभावा: । एवमन्यदपि बोध्यम् ।
अनुभाव्यते प्रतीतिविषयीक्रियते रत्यादि: येन कार्यरूपेणेति अनुभाव: । रत्यादे: कार्यविशेष इति यावत्, यथा – दुष्यन्तस्य शकुन्तलाविषये रतौ सम्भवन्त्यां कटाक्षविक्षेप-आलिङ्गन-अधरपान-चुम्बनादय: कार्यविशेषा: सम्भवन्ति, । एवं शकुन्तलाया अपि दुष्यन्तविषये रतौ जातायां स्वेद-रोमाञ्च-पलायनादय: सम्भवन्ति । एते अनुभावा: । अयं च अनुभाव: आन्तरिक: बाह्यश्चेति द्विविध: । तत्र स्तम्भादय: आन्तरिका:, कटाक्षविक्षेपादयश्च बाह्या इति विवेक: । व्यभिचरन्ति विशेषेण रत्यादे: आभिमुख्येन चरन्तीति व्यभिचारिण: । ते च निवेर्दादय: त्रयस्त्रिशंत् गुरुदेवादिविषयिका रतिश्चेति चतुत्रिंशत् । ते यथा काव्यप्रकाशे –
- निवेर्दग्लानिशङ्काख्यास्तथासूयामदश्रमा: ।
- आलस्यं चैव दैन्यं च चिन्ता मोह: स्मृतिर्धृति: ॥
- व्रीडा चपलता हर्ष आवेगो जडता तथा ।
- गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
- सुप्तं प्रबोधोऽमर्षश्चाप्यवहिथमथोग्रता ।
- मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥
- त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिण: ।
- त्रयस्त्रिशंदमी भावा: समाख्यातास्तु नामत: ॥
- रतिदेर्वादिविषया व्यभिचारी तथाञ्चित: ॥
- भाव: प्रोक्त: . . . . . . . . . . . . . . . । च.उ.
एतै: त्रिविधैरर्थै: सहृदयस्य चित्तेऽभिव्यक्तो रत्यादि: स्थायी भावो रसो भवति । ननु स्थायी क:? उच्यते, चित्ते चिरं वर्तमानत्वात् रत्यादि: स्थायीत्युच्यते, तदुक्तम् –
- चिरं चित्तेऽवतिष्ठन्ते सम्बध्यन्तेऽनुबन्धिभि: ।
- रसत्वं प्रतिपद्यन्ते प्रवृद्धा: स्थायिनोऽत्र ते ॥इति ।
एते च रत्यादय: अष्ठौ, यथा –
- रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
- जुगुप्सा विस्मयश्चेति स्थायिभावा: प्रकीर्तिता: ॥
ननु चित्तवृत्तित्वाविशेषात् निवेर्दादीनामपि स्थायित्वमस्तु – मैवम्, संसारचक्रे भ्रमतां समेषां प्राणिनां चित्ते एतावतामेव सर्वदा वर्तमानत्वम् । तस्मात् तावतामेव स्थायित्वम् नान्येषाम् । अत एवाभिहितम् अभिनवभारत्याम् – स्थायित्वमेतावतामेव । जातो हि जन्तुरियतीभिरेव संविद्भि: परीतो भवति ॥यद्यपि कस्यचित् पुंसो निवेर्दादे: भावान्तरस्यापि जन्मान्तरेषु बाहुल्येन अनुभवात् जन्मन्यस्मिन् चित्ते चिरमवस्थानं सम्भवति तथापि तत् केवलं तन्मात्रस्य पुंस: न तु सवेर्षाम् । इह तु सर्वपुरुषाभिप्रायेणैव स्थायिनां निरूपणं महर्षिणा कृतमिति दोषाभाव: । नन्वत्र कस्यचित् स्थायिन: केचित् भावा विरोधिनो भवन्ति केचिच्च अविरोधिन: । एवं स्थिते कथं सर्वैरपि भावै: स्थायिन: पोषणमिति कथमेतत् युज्यते? सत्यम्, अत एवोक्तम् –
- विरुद्धैरविरुद्धैर्वा भावै: विच्छिद्यते न य: ।
- आत्मभावं नयत्यासौ स स्थायी लवणाकर: ॥
तत्र रति: विभावादिभि: अभिव्यक्ता शृङ्गारो भवति, हास्यो हास्य:, शोक: करुण:, क्रोधो रौद्र:, उत्साहो वीर:, भयं भयानक:, जुगुप्सा बीभत्स:, विस्मयश्च अद्भुत इति शृङ्गारादय: अष्ठौ रसा: । ननु एतावन्त एव यदि रसा: तर्हि नव रसा इति कथं प्रवाद:? उच्यते, अष्ठौ रसा इति तु विकृतिरसाभिप्रायेण । प्रकृतिभूतस्तु रस: कश्चिद्वर्तते । स च शान्त: । तस्यापि उपसंख्यानेन कथने तु नव रसा इत्येव न्याय्यम् । रसेषु हि प्रकृतिविकृतिभावो महर्षिणोऽपि सम्मत:, यदाह –
- स्वं स्वं निमित्तमासाद्य शान्ताद्भाव: प्रवर्तते ।
- पुनर्निमित्तापाये शान्ते एवोपलीयते ॥
प्रकृतिविकृतिभावश्च तन्तुपटयोरिव मृद्घटयोरिव च न सांख्यैरङ्गीकृत: किन्तु प्रसन्नक्षुभितसरोवरयोरिव लौकिक: । लोके हि प्रसन्ने सरोवरे 'प्रकृतिरियम्’ इति बुद्धिर्जायते । तदेव शिलापातनादिना यदि क्षुभितं क्रियते तर्हि 'विकृतिरियम्’ इति बुद्धि: । एवं चित्तं यदा प्रसन्नम् अर्थात् निर्विकारं भवति तदा शान्तो रस: । यदा तु विकारयुक्तं तदा शृङ्गारादिकं रसान्तरम् । तत्र काव्यदृष्ट्या यदा शृङ्गारादि: तदा शास्त्रदृष्ट्या धर्मार्थकामा: त्रय: पुरुषार्था: । यदा तु काव्यदृष्ट्या शान्त: तदा शास्त्रदृष्ट्या तु मोक्ष: । एतेन विषयाभिमुख्ये सति धर्मादय: त्रय: पुरुषार्था भवन्ति शृङ्गारादयश्च रसा: । यदा तु विषयवैमुख्यं तदा मोक्ष: पुरुषार्थ: शान्तश्च रस इत्युक्तं भवति ।
भरतेन यदुक्तम् - विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिरिति तत् रससूत्रमित्युच्यते । अत्र संयोगशब्दस्य निष्पत्तिशब्दस्य अथेर् महती विप्रतिपत्ति: अवलोक्यते । अत एवास्य बहुधा व्याख्यानानि सम्पन्नानि । तत्र भट्टलोल्लटादीनाम् उत्पत्तिवाद:, भट्टशङ्कुकस्य अनुमितिवाद:, भट्टनायकस्य भुक्तिवाद:, अभिनवगुप्तादीनां तु व्यक्तिवादश्चेत्येते चत्वारो वादा: प्रथिता: सन्ति । जगन्नाथेन स्वकीये रसगङ्गाधरे नवीनास्तु इति प्रतीकमादय अन्यदेकमपि मतं विचारितम् । तस्य परिशीलने भ्रान्तिवाद इति शब्देन तस्य व्यपदेश: स्वारसिको भवति । तस्यापि उपसंख़्याने रसे विषये समवायेन पञ्च वादा भवन्ति । श्रोतॄणां सौकर्याय ते क्रमेणात्र संक्षेपेण निरूप्यन्ते –