सागरः From Wikipedia, the free encyclopedia
हिन्दुमहासागरः भूमेः पञ्च महासागरेषु तृतीयः महान् महासागरः (प्रशान्तसागर-अट्लाण्टिक्-महासागरयोः पश्चात्), यस्मिन् भूमेः २०% जलं विद्यते । भारतस्य कन्याकुमारीतः दक्षिणध्रुवे स्थितम् अण्टार्क्टिक्प्रदेशपर्यन्तम् अयं सागरः व्याप्तः विद्यते । अस्य चत्वारः प्रमुखाः जलमार्गाः - सूयझ्-केनाल् (ईजिप्ट्देशः), बेब् एल् मेण्डेब् (जिबौटि-येमेन्), स्ट्रैट् आफ् हार्मझ् (इरान्-ओमन्), स्ट्रैट् आफ् मलक्क (इण्डोनेशिया-मलेशिया) च ।
समग्रस्य भूप्रदेशस्य १४.६५ % भागम् अवृतवतः अस्य महासागरस्य गरिष्ठतमा गभीरता ७,७२५ मीटर्मिता ।
अस्य पूर्वदिशि इण्डोचीना, सुन्दद्वीपाः आस्ट्रेलिया च वर्तते । पश्चिमदिशि आफ्रिका, उत्तरदिशि अरेबियन्-पेनिन्सुला, भारतीयोपखण्डश्च विद्यते । दक्षिणे दक्षिणमहासागरेण आवृत्तः । भारतीयोपखण्डस्य कारणतः अस्य नाम हिन्दुमहासागरः (इण्डियन् ओषन् इति वा) इति जातम् । विश्वसागरस्य घटकरूपः अयम् अट्लाण्टिक्-महासागरात् ९००पूर्वे, मेरिडीयन्-पेसिफिक्-महासागरात् १४६० ५५’, पूर्वमेरिडियन्-द्वारा पृथक्कृतः अस्ति । हिन्दुमहासागरस्य उत्तरविस्तारः पर्षियन्-गल्फ्तः ३०० उत्तरदिशि विद्यते । आफ्रिका-आस्ट्रेलिया-दक्षिणान्तयोः मध्ये अस्य सागरस्य विस्तारः १०,०० कि मीटर्मितः । अस्य विस्तारः ७२,५५६,००० चतुरस्रकिलोमीटर्मितः (२८.३५ दशलक्षचतुरस्रमैल्मितः) । अस्य सागरस्य घनफलं २९२,१२१,००० घनकिलोमीटर्मितम् (७०,०८६,००० चतुरस्रमैल्स्मितम्) ।
सागरस्य अन्तः विद्यमानाः द्वीपराष्ट्राः - मडगास्कर् (विश्वस्य चतुर्थः महान् द्वीपः), रियूनियन्-द्वीपः, कोमोरोस्, सीशेल्स्, माल्डीव्स्, मारिषस्, श्रीलङ्का च ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.