औरङ्गजेब
From Wikipedia, the free encyclopedia
अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः (आलमगीर) (४ नवम्बर १६१८ – ३ मार्च १७०७) इति नाम्ना प्रसिद्धः आसीत्। अयं मोघल साम्राज्यस्य ६ राजा आसीत्। अस्य शासनकालः १६५८ तः १७०७ पर्यन्तम् आसीत्। अस्य मरणपर्यन्तं सः शासनं कृतवान्। भारतीय उपखण्डेषु अर्धशतकापेक्षया अधिकः कालः औरङ्गजेबः शासितवान् आसीत्। अकबरस्यानन्तरम् अयमेव अधिककालं यावत् शासनं कृतवान्। स्व जीवितकाले दक्षिणभारतपर्यन्तं साम्रज्यस्य विस्तारकरणे अस्य महान् प्रयासः आसीत्। किन्तु अस्य मरणानन्तरम् मोघलसाम्राज्यस्य उत्तमस्थितिः नासीत्। अस्य शासनकाले मोघलसाम्राज्यस्य उत्तमास्थितिः आसीत्। ऐतिहासिकानं वर्णनम् एवमासीत् अस्य साम्राज्यम् अस्य शासनकाले धनधान्येन पूर्णम् आसीत्। औरङ्गजेबः स्वसाम्राज्ये इस्लाम् आधारितनियमान् स्थापितवान्। आदौ यवनजनानाम् उपरि करम् अधिकं स्थापितवान् आसीत्। स्वजानानाङ्कृते अपि अधिककरस्थापितः प्रथमः राजा आसीत्। औरङ्गजेबः हिन्दूदेवालयान् नाशितवान् आसीत्। एवं गुरुतेज् बहद्दूरम् मारितवान् आसीत्।
अबुल मुज़फ्फर मुहिउद्दीन मुहम्मद औरङ्गजेबः | |
---|---|
शासनकालम् | ३१ July १६५८ – ३ March १७०७ |
राज्याभिषेकः | १५ June १६५९ रक्तदुर्गे, देहली |
पूर्ववर्ती | शाहजहानः |
पिता | शाहजहानः |
माता | Mumtaz Mahal |
जन्म | (१६१८-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०४)४ १६१८ Dahod, मोघलसाम्राज्यम् |
मृत्युः | ३ १७०७(१७०७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ३-०३) (आयुः ८८) Ahmednagar, भारतम् |
मतम् | इस्लाममतम् |