From Wikipedia, the free encyclopedia
इण्डोनेशिया (बहासा इण्डोनेशिया: Indonesia), आधिकारिकरूपेण इण्डोनेशिया गणराज्यं (Republik Indonesia), सिन्धु-प्रशान्तमहासागरयोः मध्ये, आग्नेयजम्बुद्वीपे ओशीनियामहाद्वीपे च, भारतस्य दक्षिणपूर्वदिशि स्थित: कश्चन देश: अस्ति । अस्मिन् १७,००० तः अधिकाः द्वीपाः सन्ति, येषु सुमात्रा, यव (जावा), सुलावेसी, वरुणद्वीपस्य, नवगिनीद्वीपस्य च केचन अंशाः अपि सन्ति । इण्डोनेशिया विश्वस्य बृहत्तमः द्वीपदेशः, क्षेत्रानुसारं १४ तमः बृहत्तमः देशः अस्ति 19,04,569 वर्ग किलोमीटर (7,35,358 वर्ग मील) क्षेत्रफलयुक्तः । प्रायः २७ कोटिः (270 मिलियन्) जनानां सह इण्डोनेशिया विश्वस्य चतुर्थः सर्वाधिकजनसङ्ख्यायुक्तः देशः, मुस्लिमबहुलतमः देशः एव च अस्ति । यव (जावा) विश्वस्य सर्वाधिकजनसङ्ख्यायुक्तः द्वीपः इति कारणतः देशस्य जनसङ्ख्यायाः अर्धाधिकाः जनाः निवसन्ति ।
ध्येयवाक्यम्: Bhinneka Tunggal Ika (language?) बिन्नेक तुङ्ग्गल् इक "भिन्नतायाम् एकता" राष्ट्रियविचारधारा- पञ्चशीलाः[1][2] | |
राष्ट्रगीतम्: Indonesia Raya इण्डोनेशिया राया "महान् इण्डोनेशिया" | |
राजधानी | तरुमानगरं (जकार्ता) |
बृहत्तमं नगरम् | जकार्ता |
देशीयता | इण्डोनेशियन |
व्यावहारिकभाषा(ः) | इण्डोनेशियाभाषा |
प्रादेशिकभाषा(ः) | 700 तः अधिकाः भाषाः |
राष्ट्रीयभाषा(ः) | इण्डोनेशियाभाषा |
सर्वकारः | एकात्मक अध्यक्षीय गणतन्त्रम् |
- राष्ट्रपतिः | जोको विडोडो |
- उपराष्ट्रपतिः | मारुन् अमीन् |
- सदनाध्यक्षः | पून् महारानी |
- मुख्यन्यायाधीशः | मुहम्मद् स्यारीफूद्दीन् |
विधानसभा | जनपरामर्शसभा (एमपीआर) |
- ज्येष्ठसदनम् | क्षेत्रीयप्रतिनिधिपरिषद् (डीपीडी) |
- कनिष्ठसदनम् | जनप्रतिनिधिपरिषद् (डीपीआर) |
स्वतन्त्रता | नेदर्लेण्ड, जापान च तः |
- प्रख्यापितम् | 17 अगस्त 1945 |
- अभिज्ञानम् | 27 दिसम्बर 1949 |
विस्तीर्णम् | |
- आविस्तीर्णम् | 19,04,569[3] कि.मी2 (14मी) |
7,35,358 मैल्2 | |
- जलम् (%) | 4.85 |
जनसङ्ख्या | |
- 2021स्य माकिम् | 27,38,79,750[4] ([[विविध देशानां जनसङ्ख्या|]]) |
- 2020स्य जनगणतिः | 27,02,03,917 (4थी) |
- सान्द्रता | 141/कि.मी2(88तमम्) 365/मैल्2 |
राष्ट्रीयः सर्वसमायः (PPP) | 2022स्य माकिम् |
- आहत्य | $3.995 ट्रिलियन्[5] (7मी) |
- प्रत्येकस्य आयः | $14,535[5] (96तमम्) |
राष्ट्रीयः सर्वसमायः (शाब्द) | 2022स्य माकिम् |
- आहत्य | $1.289 ट्रिलियन्[5] (17मी) |
- प्रत्येकस्य आयः | $4,691[5] (104तमम्) |
Gini(2019) | 38.2 () |
मानवसंसाधन सूची (2019) |
0.718 ()(107तमम्) |
मुद्रा | इण्डोनेशिया रुपिया (Rp) (IDR ) |
कालमानः | विविधाः (UTC+7 तः +9 पर्यन्तम्) |
वाहनचालनविधम् | वामतः |
अन्तर्जालस्य TLD | .id |
दूरवाणीसङ्केतः | ++62 |
इण्डोनेशिया निर्वाचितं विधानमण्डलं युक्तं अध्यक्षीय गणराज्यम् अस्ति । अस्य ३४ प्रदेशाः सन्ति, तेषु पञ्चसु विशेषाधिकारः अस्ति । देशस्य राजधानी तरुमानगरं (जकार्ता) विश्वस्य द्वितीयः सर्वाधिकजनसङ्ख्यायुक्तः नगरीयक्षेत्रः अस्ति । इण्डोनेशियादेशे पापुआ नवगिनी, पूर्वतिमोर, मलेशियादेशस्य पूर्वभागः इत्यनेन सह भूमिसीमाः सन्ति, सिङ्गापुर, चम्पादेशः (वियतनाम), थैलेण्ड्, कलिङ्गद्वीपः (फिलीपीन्स), आस्ट्रेलिया, पलाउ, भारतम् (अण्डमाननिकोबारद्वीपसमूहः) इत्यनेन सह समुद्रीयसीमाः अपि सन्ति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.