राज्यसभा
From Wikipedia, the free encyclopedia
राज्यसभा ( ( शृणु) /ˈrɑːdʒjəsbhɑː/) (आङ्ग्ल: Council of States, हिन्दी: प्रजातन्त्र, लोकतन्त्र) भारतगणराज्यस्य संसदः उच्चसदनत्वेन परिगण्यते । भारतगणराज्यस्य राज्यानां विधानपरिषदः, विधासभायाः च सदस्यानां मतदानेन एतस्य सदनस्य प्रतिनिधीनां चयनं भवति । भारतीयसंविधाने राज्यसभायाः सदस्यानाम् अधिकतमसङ्ख्या २५० निर्धारिता अस्ति । तेषु द्वादशजनाः कला, साहित्यं, विज्ञानं, कृषिः, यान्त्रिकी, लोकप्रशासनं, समाजसेवा इत्यादिभ्यः क्षेत्रेभ्यः भवन्ति । उक्तानां द्वादशदसदस्यानां नियुक्तिं राष्ट्रपतिः करोति । १९५२ तमस्य वर्षस्य 'अप्रैल'-मासस्य तृतीये (३/४/१९५२) दिनाङ्के राज्यसभायाः रचना अभवत् । प्रथमराज्यसभायाः प्रथमगोष्ठी तत्कालीनस्य डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य अध्यक्षतायाम् अभवत् । १९५४ वर्षात् प्राक् राज्यसभायाः नाम 'काउंसिल् ऑफ् स्टेट्स्' आसीत् । ततः १९५४ तमस्य वर्षस्य 'अगस्त'-मासस्य त्रयोविंशतितमे (२३/८/१९५४) दिनाङ्के सभापतिः अघोयत् यत्, “इतः परम् एतत् सदनं राज्यसभानाम्ना सम्बोधनीयम्” इति ।
राज्यसभा Council of States | |
---|---|
प्रकारः | |
प्रकारः |
उच्चगृहम् भारतस्य संसद् |
नेतृत्वम् | |
उपाध्यक्षः | |
सदनस्य नेता | |
विपक्षनेता | |
संरचना | |
सदस्यसंख्या |
आहात्य २४५ *२३१ निर्वाचिताः *१० प्रस्ताविताः *४ रिक्तम् भारतीयसंविधाने अधिकाधिकं २४० सदस्यानां स्थानम् उद्घोषितम्[4] |
राजनैतिकसङ्घाः |
संयुक्तप्रगतिशीलसन्धिः (८२)
अन्यपक्षाः
राष्ट्रियगणतान्त्रिकसन्धिः (६३)
अन्यपक्षाः
असंयुक्तानि दलानि (82) Parties
प्रस्ताविताः (10) |
सभास्थानम् | |
राज्यसभामण्डलानि, संसद्भवनम्, संसदः मार्गः, नवदेहली | |
जालस्थानम् | |
rajyasabha.nic.in |