ऋग्वेदः
From Wikipedia, the free encyclopedia
ऋग्वेद अर्थादृच्यते स्तूयते यया सा ऋक्, तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्थाः सा ऋगिति मीमांसकाः । तत्र बहुभिर्भिन्नभिन्नैरृषिभिः सुललितैः भावभव्यैः शब्दैर्विभिन्ना देवताः सादरं स्तुताः सन्ति । पाश्चात्यदृशि भाषाया भावस्य च विचारेण अन्यवेदेभ्योऽतीवप्राचीनोऽस्त्ययमृग्वेदः।[1] भारतीयदृष्ट्याऽपि ऋग्वेदस्याभ्यहितत्वं पूजनीयता च वर्तते।[2] तैत्तिरीयसंहितानुसारेण यज्ञस्य यद्विधानं क्रियते, तत्तु शिथिलं भवति किञ्च ऋग्वेदेन विहितानुष्ठानं दृढम्भवति। यथा-
त्वरिततथ्यानि
पिदधातु
‘यद्वै यज्ञस्य साम्ना यजुषा क्रियते शिथिलं तत्, यदृचा तत् दृढमिति ॥'[3]
पुरुषसूक्तेऽपि यशोरूपी सहस्रशीर्षापरमेश्वरात् सर्वप्रथमः ऋचामेवाविर्भावोऽभवत् । यथा —
‘तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि यज्ञिरे ॥
छन्दांसि यज्ञिरे तस्मात् यजुस्तम्मादजायत ॥'