चार्वाकदर्शनम्
From Wikipedia, the free encyclopedia
चार्वाकदर्शनं (Cārvāka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति ।
बृहस्पतिः एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते ।
चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते ।
चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति ।
चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति ।
किन्त्वनेन ते भोगैकतत्पराः दुराचाराश्च आसन्निति न निर्णेतव्यम् ।
अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः ।
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति ।
दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः अस्य दर्शनस्य चार्वाकदर्शनमिति ख्यातिः ।
चार्वाकदर्शनानुसारं मरणमेव मोक्षः ।
मरणात् परं किमपि नास्ति इति ते वदन्ति ।
परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते ।
‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’[1] इति ते पृच्छन्ति च ।
तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति ।
एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् ।
प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।
- यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।
- भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति
लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥
पृथिवी-अप्- तेजो-वायु -रूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते ।
प्रत्यक्षमेव प्रमाणम् ।
शरीरिणः कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः ।
वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति इति मन्वते चार्वाकाः ।
- क) पृथिव्यप्तेजोवायवः तत्त्वानि ।
- ख) तेभ्यः चैतन्यम् ।
- ग) चैतन्यविशिष्टः कायः पुरुषः ।
- घ) कामार्थौ पुरुषार्थौ ।
- ङ) मरणं मोक्षः इति संग्रहः ।
तथाहि-
देहस्य नाशो मुक्तिस्तु न ज्ञानात् मुक्तिरिष्यते ॥
अत्र चत्वारि भूतानि भूमिवार्यनलोनिलाः ।
चतुर्भ्यः खलु भूतेभ्यः चैतन्यमुपजायते
..........................(सं.द.सं)
तत्त्वज्ञानिनां कृते सृष्टेः रहस्यं अनुसन्धानस्य विषयः भवति ।
सर्वासु दार्शनिकविचारधारासु विषयस्यास्य विश्लेषणं कृतम् ।
यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।
दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते ।
सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्ट्या मीमांसितानि ।
तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तकः चिन्तनं कृत्वा उपलब्धं निष्कर्षं प्रस्तौति ।
एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते ।
अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।
भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति ।
तस्य विचारणा विद्यते यत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति ।
दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति एतत् विश्वासयोग्यः न भवति ।
यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते ।
एवञ्चेत् बुद्धिभेदात् एते स्थूलबुद्धयो दार्शनिकाः स्वकीयया स्थूलबुद्ध्या यदपि अवगन्तुं क्षमन्ते,तदेव मूलतत्त्वं स्वीकुर्वन्ति ।
अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् ।
यद्यपि महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् ।
वैदिकदर्शनस्योपरि तेषां वेदविरोधिनामाचार्याणां प्रहारोऽपि सततं समजायत ।
अनुमानापेक्षया शब्दप्रमाणेनैव सृष्टितत्त्वानां प्रामाण्यं गृह्यते ।
सृष्टितत्त्वानां प्रामाण्यम् अनुमानापेक्षया शब्दप्रमाणेन सुतरां गृह्यते ।
वेदाः शब्दप्रमाणरूपाः वर्तन्ते ।
वैदिकवाक्यैरेव दर्शनोक्तानां जीव-जगत्-ईश्वर-ब्रह्मादितत्त्वानां प्रामाणिकता सिद्ध्यति ।
पुनरपि अवैदिकदर्शनेषु वेदानां प्रामाण्यं स्वीकृतं नास्ति ।
अवैदिकदर्शनेषु चार्वाक-जैन-बौद्धाः प्रमुखाः सन्ति ।
एष्वपि जैन-बौद्धयोः तत्त्वचिन्तने सूक्ष्मा दृष्टिरस्ति ।
चार्वाकस्तु पूर्णतया स्थूलदृष्टिरस्ति ।
दर्शनशास्त्रस्येतिहासे चार्वाकदर्शनस्य आद्यं स्थानमस्ति ।
अनेन चार्वाकदर्शनस्य प्राचीनताऽपि सिद्ध्यति ।
अस्य प्राचीनतया इदमपि स्पष्टीभवति यत् यथा यथा मानवसभ्यताया विकासो जातः तथा तथा तस्याः संस्कृतौ आचारविचारयोश्च परिष्कारो बभूव ।
सभ्यतया विकासेन सह सृष्टिविज्ञानादयो दार्शनिकसिद्धान्ता अपि सूक्ष्मतत्त्वानुसन्धाने प्रवृत्ता भवितारः, किन्तु सभ्यतायाः प्रारम्भे दर्शनशास्त्रस्य स्थूलतत्त्वानि प्रचलितानि स्युरित्यपि पन्तुं शक्यते ।
यदि चार्वाकाः स्थूलविचारपर्यन्यतमेवात्मनः चिन्तनस्य श्रेयस्करत्वं मन्यन्ते तर्हि को दोषः? वस्तुतः चार्वाकाणां एषा हठधर्मिता तु तन्मतस्य पुरातनम् अस्तित्वं द्योतयति ।
चार्वाकाणां स्थूलदृष्टेर्मान्यताया आधारः को भवितुं शक्नोति ।
दर्शनस्य तात्विकविश्लेषणेन तन्निर्धारणं स्यात् ।
प्रारम्भे इदं दर्शनं लोकायतनाम्ना प्रसिद्धमासीत् ।
लोकायतानां परपक्षखण्डनमतिरिच्य नान्यः कश्चन सिध्दान्तः आसीत् ।
ते लोकायतिका वेदनिन्दका आसन् ।
अन्येऽपि तत्कालिकाः विचारका एभ्यः खिन्ना आसन् ।
जैनबौद्धाभ्याम् अपि एषा निन्दा विहिता ।
चार्वाकदर्शनमिति नामकरणे किमपि सुदृढं प्रमाणं नास्ति ।
आचार्यबृहस्पतेः शिष्याश्चार्वाका आसन्,अतः एतेऽपि चार्वाका इत्युच्यन्ते ।
परलोक-पाप-पुण्यादीनां चवर्णादपि इमे चार्वाकाः स्युः ।
एतेषां वाक् चारु अस्तीत्येव एते चार्वाका इति कथ्यन्ते ।
देवगुरुः बृहस्पतिरेव अस्य मतस्य प्रवर्तनं कृतवान् ।
बृहस्पतिप्रवर्तितेऽस्मिन् दर्शने स्वभाववाद- यदृच्छावाद-नियतिवाद-कालवाद-भौतिकवादाश्च अवधारणारूपेण विकसिताः सन्ति ।
एष्वपि स्वभाववादश्चार्वाकानाम् अतीव सन्निकटमस्ति ।
यतो हि स्वभाववादे कारणकार्यभावस्य आवश्यकतैव नास्ति ।
कालवादे भाग्यस्य महत्त्वं स्वीकृतमस्ति । नियतिवादे आकस्मिकताया ग्रहणं विधीयते ।
आकस्मिकघटनाभिः सह ऐक्यं यदृच्छावादोऽभिधीयत।
चार्वाकसिद्धान्तस्योल्लेखो रामायणमहाभारतयोरपि उपलभ्यते ।
वाल्मीकीयरामायणे लोकायतिकानां प्रसङ्गोऽस्ति ।
लोकायतिकाः मिथ्यावादिनः आसीत् ।
महाभारते देह एव आत्मा इति सिद्धान्तवादिनां लोकायतिकानां सिद्धान्तानां प्रतिपादनप्रसङ्गे चतुर्भ्यो भूतेभ्योः चैतन्यस्य उत्पत्तिः, प्रत्यक्षमात्रस्य प्रामाण्यञ्च प्रतिपादिते ।
चार्वाकदर्शनस्य मूलग्रन्थः सूत्रशैल्याम् उपनिबद्ध आसीत् ।
अस्य रचना आचार्येण बृहस्पतिना विहिता ।
अस्य तथ्यस्योल्लेखः प्राप्यते, किन्तु सः सूत्रग्रन्थोऽनुलब्धोऽस्ति ।
डाँ. उमेशमिश्रेण चार्वाकदर्शनस्य पञ्चदशसूत्राणि विविधभाष्यग्रन्थेभ्यः टीकाग्रन्थेभ्यश्चोद्धृतानि सन्ति ।
एतदतिरिच्य ‘भागुरि’ कृतस्य टीकाग्रन्थस्यापि उल्लेखं इतिहासकाराः कुर्वन्ति ।
भट्टजयराशिकृतस्य तत्त्वोपल्पवसिन्धु नामकस्य अन्य ग्रन्थस्य विषयेऽपि विज्ञायते । अस्मिन् ग्रन्थे चार्वाकसिद्धान्तानां विस्तरेण विश्लेषणं कृतमस्ति ।